SearchBrowseAboutContactDonate
Page Preview
Page 512
Loading...
Download File
Download File
Page Text
________________ प्रवचनसारोद्धारे सटीके द्वितीयः खण्ड: ॥४८८॥ प्रमाणम् , आयामतः सङ्ख्येययोजनप्रमाणं दण्डं निसृजति । निसृज्य च यथास्थलान् बैंक्रियशरीर ॥ २३१ द्वारे नामकर्मपुद्गलान् प्राग्बद्धान् शातयति । यत उक्तम्"वेउन्चियसमुग्घायेणं समोहणइ समोहणित्ता संखेज्जाई जोयणाई दंड निसिरइ निमिरित्ता घाता: अहाबायरे पुग्गले 'परिसाडे"ति ४ । गाथा तेजसि विषये भवस्तैजसः, स चासो समुद्घातश्च तैजसमुद्घातः । स च तेजोलेश्याविनिर्गमकालमावी तेजसशरीरनामकर्माश्रयः । तथाहि-तेजोनिसर्गलब्धिमान क्रुद्धः साध्वादिः सप्लाष्टौ पदानि अवष्वक्य विष्कम्भवाहल्याभ्यां शरीरमानम् , आयामतस्तु सङ्ख्येययोजनप्रमाणं जीवप्रदेशदण्डं शरीरादहिः प्र. आ. प्रक्षिप्य क्रोधविषयीकृतं मनुष्यादि निर्दहति । तत्र च प्रभृतांस्तैजसशरीरनामकर्मपुद्गलान शातयति ५।। आहारकशरीरे प्रारम्यमाणे समुद्घात आहारकसमुद्धातः। म चाहारकशरीरनामकर्मविषयः । तथाहि-आहारकशरीरलब्धिमानाहारकशरीरं चिकीपुर्विष्कम्भवाहल्याभ्यां देहमानम् , आयामतः मलयेय. योजनप्रमाणं शरीरादहिः स्वप्रदेशदण्डं निसृज्य यथास्थूलान् प्रभूतानाहारकशरीरनामकपपुद्गलान् प्राग्बद्धान् 'शातयतीति ६। एते च षडपि समुद्घाताः प्रत्येकमान्तर्मुहृतिकाः । तथा केवलिन्यन्तमुहर्तमाविपरमपदे भवः कैवलिकः, स चासो समुद्घातश्च केवलिकसमुद्घातः| meearn स च सदसद्वेधशुभाशुभनामोच्चनीचैर्गोत्रकर्माश्रयः । अमुच सूत्रकारः स्वयमेव पुरस्तात्प्रपञ्चयिष्यतीति । १ परिसाडेति-मु.॥२ शातयति-सि. वि. ।।
SR No.090383
Book TitlePravachansaroddhar Part 2
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherZZZ Unknown
Publication Year
Total Pages740
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy