________________
प्रवचन
सारोद्वारे
सटिके
द्वितीयः
खण्ड:
૫૪૮)
चशब्दस्यानुक्तसमुच्चयार्थत्वात् सादिमपर्यवसितं च विज्ञेयम्, सपर्यवसितत्वं च सम्यक्त्वे-सम्यक्त्वा सत्याम् ।
इदमुक्तं भवति योऽनादिमिध्यादृष्टिः सन् भव्यजीवः सम्यक्त्वं लप्स्यते तस्य मिध्यात्वमनादिसान्तम् | 'अनादिकालात्तेषु तस्य सद्भावात् श्रागामिकाले तु मन्यत्वान्यथानुपपत्तेरवश्यं सम्यक्त्वावाप्तौ पर्यवसानाच्च । यस्त्वनादिमिध्यादृष्टिः सम्यक्त्वं लब्ध्वा केनापि कारणेन पुनर्मिथ्यात्वं याति तस्य तत्सादि । सम्यक्त्वलाभादनन्तरं तत्प्राप्तेः सादित्वात् । मिध्यात्वे च जघन्यतोऽन्तर्मुहूर्तम्, उत्कृष्टतस्त्वदाशातनादिपापत्रहुलतयाऽपार्धषुगलपरावर्ते यावत् स्थित्वा यदा पुनरपि सम्यक्त्वं लभते तदा तत्सान्तम् | सायनंतमितितृतीयभङ्गस्तु शून्य एव । प्रतिपतितसम्यग्दृष्टीनामेव हि मिध्यात्वं सादि । तेषां चावश्यं सम्यक्त्वभावतो मिथ्यात्वस्यानन्तत्वासंभवादिति ।
तथा सासादनगुणस्थानकम् उत्कर्षतः षढावलिकाप्रमाणम् । तत ऊर्ध्वमवश्यं मिथ्यात्वोपगमात् । आवलिका चासङ्ख्यातसमयसमुदायरूपा ।
चतुर्थम् अविरतसम्यग्दृष्टिगुणस्थानकं त्रयस्त्रिंशत्सागरोपमाणि साधिकानि । तथाहि - कविदितः स्थानादुत्कृष्टस्थितिष्वनुत्तरविमानेषूत्यनः, तत्र चाविरतसम्यग्दृष्टित्वेन त्रयस्त्रिंशत्सागरोपमाणि स्थितः, darवात्राप्यायातो यावदद्यापि विरतिं न लभते तावत्तद्भावेनैव स्थित इत्यतो मनुष्य भवसंबद्धतिपयवर्षाधिकत्रिशत्सागरोपमसंभवः ।
१ अनादिकालावर्त्तेषु सि. वि. ॥
२२१३
गुणस्था
काल:
माथा
१३०७
प्र. अ. ३८३
1184311