________________
प्रवचन
सारोद्धारे - सटीके द्वितीयः खण्ड:
२२७ट्ठा योगाः गाथा
प्र. आ. ३८२
||४७९॥
द्रष्टव्यम् , निश्चयनयमतेन तु विप्रतारणादिबुद्धिपूर्वकममन्येऽन्तर्भवनि अन्यथा तु सत्ये इति ।
यथा मनः सत्यादिभेदाच्चतुर्धा तथा वागपि सत्यादिभेदाच्चतुर्धा। तथौदारिकवैक्रियाहारकाणि शरीराणि, तत्र उदारं-प्रधानम् , प्राधान्यं च तीर्थ कर गणधरशरीरापेक्षया द्रष्टव्यम् । ततोऽन्यस्यानुत्तरसुरशरीरस्याप्यनन्तगुणहीनरूपत्वात् । अथवा उदा- 'सातिरेकयोजनसहस्रमानवाच्छेषशरीरेभ्यो बृहप्रमाणम् , बृहत्ता चास्य वैक्रियमाश्रित्य भवधारणीयसहजशरीरापेक्षया द्रष्टव्या । अन्यथोत्तरक्रिय योजनलक्षमानमपि लभ्यते इति । उदारमेवौदारिकम् । .. तथा विविधा विशिष्टा वा क्रिया विक्रिया, तस्यां मवं वैक्रियम् । तथाहि-तदेकं भूत्वाऽनेकं भवति, अनेक च भूत्वा एकम् , तथा अनुभूत्वा महद्भवति, महद् भूत्वा अणु इत्यादि।
तथा चतुर्दशपूर्वविदा तीर्थकरस्फातिदर्शनादिकतथाविधकार्योत्पत्तो विशिष्टलब्धिवशादाहियतेनिर्वयंत इत्याहारकम् , तथा मिश्रशब्दः प्रत्येक संबध्यते । औदारिकमिश्रं वैक्रियमिश्रमाहारकमिश्रं च । तत्रौदारिकमिश्रं कामणेन, तच्चापर्याप्तावस्थार्या केवलिसमुद्घातावस्थायां वा । उत्पत्तिदेशे हि पूर्वभवादनन्तरागतो जीव आद्यसमये कार्मणेनैव केवलेनाहारयति । ततः परमौदारिकस्याप्यारन्धत्वादीदारिकेण कार्मणमिश्रेण यावच्छरीरस्यनिष्पत्तिः । केवलिसमुद्घातावस्थायां तु द्वितीय-षष्ठ-सप्तमसमयेषु कामणेन मिश्रमौदारिक प्रतीतमेव ।
१ सातिरेकयोजनशतसहस्र० मु.1 सि.वि. प्रत्योः पश्चसङमहेऽपि-[द्वा. मा. ४. प. ६-३तः ] सातिरेकयोजन- सहसा इति पाठः ।।
४७९॥