SearchBrowseAboutContactDonate
Page Preview
Page 501
Loading...
Download File
Download File
Page Text
________________ नवचन सारोद्धारे सटीके द्वितीयः खण्ड: ||४७७॥ इदानीम् 'उवओग पारस' त्ति षड्विंशत्युत्तरद्विशततमं द्वारमाह मह १ सुप २ ओही ३ मण ४ केवलाणि ५ मइ ६ सुयन्त्राण ७ किभंगा ८ | अचक्खु ९ चक्खु १० अवहां ११ केवलचउदसणु १२ वओगा ।। १३०४ ॥ उपयुज्यते - वस्तुपरिच्छेदं प्रति व्यापार्यते जीव एमिरित्युपयोगा :- बोधरूपा जीवस्य स्वतवभूता व्यापाराः ते च द्विधा साकारा अनाकाराश्च । तत्र आकारः प्रतिवस्तु प्रतिनियतो ग्रहणपरिणामरूपो विशेषः, 'आगारो व विसेसो' इति वचनात् सह आकारेण वर्तन्ते इति साकाराः । सामान्यविशेषात्मके वस्तुनि विशेषांशग्राहिण इत्यर्थः । तद्विपरीतास्त्वनाकाराः, सामान्यांशग्राहिण इत्यर्थः । तत्र मतिश्रुतावधि - मनःपर्याय केवला ख्यानि पञ्च ज्ञानानि । मत्यज्ञानश्रुताज्ञानविभङ्गरूपाणि त्रीणि चाज्ञानानि इत्यष्टौ साकाराः अचक्षुश्चक्षुरवधिकेचलाख्यानि चत्वारि दर्शनान्यनाकाराः । तदेवं मिलिता द्वादश उपयोगाः । तत्र ज्ञानानि दर्शनानि च प्रागेवोक्तानि । तथा मतिश्रुतावधिज्ञानान्येवः नञः कुत्सार्थत्वान्मिथ्यात्व कलुषिततया यदा कुत्सितानि भवन्ति तदा यथाक्रमं मत्यज्ञान श्रुताज्ञानविभङ्गव्यपदेशभानि भवन्ति । 'विभंग' ति विपरीतो मङ्गः - परिच्छित्तिप्रकारो यस्मिन् तद्विभङ्गमिति ॥ ४ ॥ २२६ ॥ इदानीं 'योगा पत्नरस' त्ति सप्तविंशत्युत्तरं द्विशततमं द्वारमाह १ सच्चं मोसं २ मीसं ३ असच्चमो ४ मणो तह वई प ४ । परल १ विउब्वा २ हारा ३ मीस ३ कम्मयग १ मिय जोगा || १३०५ ॥ [प्राचीन कर्मग्रन्थ ४ । गा. ३४ ] १ः पर्व - 'उपयोगाः' इति सि. प्रतौ । तदेवं मिलिता द्वादश उपयोगाः जे. प्रतौ अधिकम् ॥ २ मणं वा ॥ २२३द्वारे उपयोगाः गाथा १३०४ २२७द्वारे योगाः गाथा १३०५ प्र. आ. ३८१ ॥४७७॥
SR No.090383
Book TitlePravachansaroddhar Part 2
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherZZZ Unknown
Publication Year
Total Pages740
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy