________________
प्रवचनसारोद्धारे सटीके
द्वितीयः खण्ड:
।४७६।।
"धायच्या
३८०
इदानीं 'मम्गणच दसगो ति पञ्चविंशत्युसरद्विशततमं द्वारमाह
| २२५ द्वारे गइ १ इंदिए य २ काये ३ जोए ४ वेए ५ कसाय ६ 'नाणे य ७।।
मार्गणाः संजम ८ दंसण ९ लेसा १. भव ११ सम्मे १२ सन्नि १३ आहारे १४ ॥३॥
गाथा [ आवश्यकनियुक्ति गा. १४, जीवसमास गा. ६ ] गतिः, इन्द्रियाणि, कायाः, योगाः, वेदाः, कषायाः, ज्ञानानि, संयमः, दर्शनानि. लेश्याः, भव्याः, सम्यक्त्वम् , संझी, आहारक इति मूलभेदापेक्षया चतुर्दश मार्गणास्थानानि । मार्गणं-जीवादीनां पदार्थानामन्वेषणं मार्गणा, तस्याः स्थानानि-आश्रया मार्गणास्थानानि । उत्तरमेदापेक्षया तु द्वाषष्टिः । तथाहि-सुर• प्र.आ. नरतिर्यग्नारकगतिभेदा गतिश्चतुर्धा । स्पर्शन-रसन-प्राण चन:-श्रोत्रेन्द्रियभेदात् पश्च इन्द्रियाणि । पृथिव्य. प्तेजोवायुवनस्पतित्रसकायभेदान काया पोढा । मनोवचनकायाख्या योगास्त्रयः स्त्रीनपुसकस्वरूया वेदा. स्त्रयः । क्रोधमानमायालोभलक्षणाः कषायाश्चत्वारः । मतिश्रुतावधिमनःपर्याय केवल मेदात् पञ्च ज्ञानानि । ज्ञानग्रहणेन चाज्ञानमपि तत्प्रतिपक्षभूतमुपलक्ष्यते, तच्च विधा-मत्यज्ञानश्रुताज्ञानविभङ्गज्ञानभेदात् । एवमष्टौ । सामायिक-च्छेदोपस्थापनीय-परिहारविशुद्धिक क्षमसंपराय-यथाख्यातभेदात संयमः पश्चधा। तत्प्रतिपक्षत्वाच देशसंयमोऽसंयमश्च गृह्यते, एवं सप्त । चक्षुरचक्षुरवाधिकेवलभेदाचत्वारि दर्शनानि । कृष्णा, नीला, कापोती, तैजसी, पद्म, शुक्ला चेति षट् लेश्याः । भव्यस्तत्प्रतिपक्षत्वेन चाभव्यइति द्वयम् , क्षायोपशमिकभेदाद सम्यक्त्वं त्रिधा, सम्यक्त्वग्रहणेन च तत्प्रतिपक्षभृतानि मिश्रसासादनमिथ्यात्वान्यपि गृह्यन्ते, एवं षट् , संज्ञी तत्प्रतिपक्षश्वासंझीति द्वयम् , आहारकस्तत्प्रतिपक्षोऽनाहारक इति द्वयम् । सर्वमीलने च द्वापष्टिरिति ।३॥२२५॥ ॥४७॥
नाणेसु-मुः।
ADIOm
R