________________
मुहूर्तावशेषायुष्कः सयोगिकेवली शैलेशी प्रतिपित्सुः पूर्व बादरकाययोगेन बादरवाग्योगं निरुणद्धि, ततो
चादरमनोयोगम् , ततः मूक्ष्मकाययोगेन बादरकाययोगम् । सति तस्मिन् सूक्ष्मयोगस्य निरोद्धमशक्यत्वात् । २२४द्वारे वचनः । ततस्तेनैव 'सूक्ष्मवाग्योगम् . ततः सूक्ष्ममनोयोगम् , ततः सूक्ष्मक्रियमनिवृत्ति शुक्लध्यानं ध्यायन सूक्ष्म- गुणनारोद्धारे
काययोग स्वात्मनैव निरुणद्धि । अन्य स्यावष्टम्भनीययोगान्तरस्य तदाऽसवात् । तन्निरोधानन्तरं समुच्छि-शानकानि नटीके । भक्रियमप्रतिपाति शुक्लध्यानं ध्यायन इस्वपश्चाक्षरोच्चारणमात्रकालं शैलेशीकरणं प्रविष्टो भवति ।
गाथा द्वतीयः
शीलस्य-योगलेश्याकलङ्कविप्रमुक्तयथाख्यातचारित्रलक्षणस्य य ईशः स शीलेशस्तस्येयं शैलेशी। १३०२ त्रिभागोनस्वदेहावगाहनायामुदरादिरन्ध्रपूरणवशात् संकोचितम्वप्रदेशस्य शैलेशस्यात्मनोऽत्यन्तस्थिरावस्थितिरित्यर्थः, तस्यां करणं-पूर्वरचितशैलेशीसमयसमानगुणश्रेणिकस्य वेदनीयनामगोत्राख्यस्याघातिकर्मत्रितयस्यासङ्ख्येयगुणया श्रेण्या आयुःशेषस्य तु यथास्वरूपस्थितया श्रेण्या निर्जरणं शैलेशीकरणम् तत्रासौ प्रविष्टोऽयोगिकेवली भवति । अयं च भवस्थः ततः शैलेशीकरणचरमसमयानन्तरं कोशवन्धविमोक्षलक्षणसहकारिसमुत्थस्वभावविशेषादेरण्डफलमिव भगवानपि कर्मसम्बन्धविमोकलक्षणसहकारिसमुत्यस्वभावविशेषार्ध्व गच्छति । स चोर्ध्व गच्छन् ऋजुश्रेण्यां यावत्स्वाकाशप्रदेशेषु इहावगाढस्ताक्त एव प्रदेशाभूमप्यवगाहमानो विवक्षितसमयाशान्यत्समयान्तरमस्पृशन् लोकान्ते गच्छति न परतोऽपि गत्युपष्टम्भकधर्मास्तिकायाभावात् । तत्र च गतः सन् शाश्वतं कालमवतिष्ठते १४ ॥१३०२॥२२४॥
॥४७५॥ १प्राचीनकर्मपन्थवृत्तिः (२२२ प.६६) द्रष्टव्या । प्राचीनकर्मप्रन्धवृत्तिः (४१२६, प.२०१३) तुलनीया ।।
।