SearchBrowseAboutContactDonate
Page Preview
Page 496
Loading...
Download File
Download File
Page Text
________________ प्रवचनसारोद्धारे सटीके द्वितीयः खण्ड: गाथा १३० ॥४७२ ननु द्वितीयादिसमयेष्वध्यवसायस्थानानां वृद्धौ किं कारणम् १, उच्यते, स्वभावविशेषः । एतद्गुणस्थानकप्रतिपत्तारो हि प्रतिसमयं विशुद्धिप्रकर्षमासादयन्तः' खलु स्वभावत एव बहवो विभिन्नेषु विभि २२६ गुणन्नेष्वध्यवसायस्थानेषु वर्तन्त इति । अत्र च प्रथमसमयजघन्याध्यवसायस्थानात् प्रथमसमयोत्कृष्टमध्यवसायस्थानमनन्तगुणविशुद्धम् , प्रथमसमयोत्कृष्टाञ्चाध्यवसायस्थानाद् द्वितीयसमयजघन्याध्यवसायस्थानमनन्तगुणविशुद्धम् तस्मात्तदुत्कृष्टमनन्तगुणविशुद्धम् , इत्येवं यावद् द्विचरमसमयोत्कृष्टाध्यवसायस्थानाच्च. रमसमयजघन्याध्यवसायस्थानमनन्तगुणविशुद्धम् , तस्मामि सदुरकरमान्त गुणविशुद्धमिति । एकसमयगतानि चामृन्यध्यवसायस्थानानि परस्परं षट्स्थाननिपतितानि । युगपदेतद्गुणस्थानकप्रविष्टानां च परस्परमध्यवसायस्थानस्य व्यावृत्तिलक्षणा निवृत्तिरप्यस्ति । यथोक्तमनन्तरमितिकृत्वा निवृत्तिगुणस्थानकमप्येतदुच्यते ८ । ___ तथा युगपद्गुणस्थानकं प्रतिपन्नानां बहूनामपि जीवानामन्योऽन्यमध्यवसायस्थानस्य व्यावृत्तिः ३७९ निवृत्तिः सा नास्ति अस्येत्यनिवृत्तिः । समकालमेतद्गुणस्थानकमारूढस्यापरस्य यस्मिन् समये यदध्यवसायस्थानमन्योऽपि विवक्षितः पुरुषस्तस्मिन् समये तदेवाध्यवसायम्थानं समनुवर्तते इत्यर्थः । संपरैतिपर्यटति संसारमनेनेति संपरायः-कषायोदयः, बादरः-सूक्ष्मकिट्टीकृतसंपरायापेक्षया स्थूरः संपरायो यस्य स बादरसंपरायः, अनिवृत्तिश्चासौ बादरसंपरायश्च २ तस्य गुणस्थानमनिवृत्तिबादरसंपरायगुणस्थानम् । तस्या चानिवृत्तिवादरगुणस्थानकाद्धायामान्तमौहर्तिक्या प्रथमसमयादारभ्य प्रतिसमयमनन्तगुणविशुद्धं यथोत्तर- Invi १०न्ति-सि.वि.॥२ तदध्य० सि.वि.॥ S
SR No.090383
Book TitlePravachansaroddhar Part 2
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherZZZ Unknown
Publication Year
Total Pages740
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy