________________
।
प्रतिक्षणमसङ्ख्येयगुणवृद्धया विशुद्धिवशान्नयनं गुणसंक्रमः । तमध्यसाविह अपूर्व करोति । तथा स्थिति प्रवचन- च कर्मणामशुद्धत्वात् प्राग्द्राधीयसी बद्धवान् , इह तु तामपूर्वा पल्योपमासङ्ख्येयभागेन हीनां हीनतरां
२२४ सारोद्धारे हीनतमां च विशुद्धिवंशादध्नाति ।
गुणसटीके अयं चापूर्वकरणो द्विधा-झपक उपशमकश्च । क्षपणोपशमनार्हत्वाच्चैवमुच्यते, राज्याईकुमार
स्थान द्वितीयः । राजवत् । न पुनरसो क्षपयत्युपशमयति वा किमपि सर्वात्मना कर्म, तस्य गुणस्थानमपूर्वकरणगुणस्थानम् ।
कानि अस्मिश्च गुणस्थानके कालत्रत्रयवर्तिनो नानाजीवानाश्रित्य प्रतिसमयं यथोत्तरमधिकवृद्धया असत्येय
गाथा 11४७१॥
लोकाकाशप्रदेशप्रमाणान्यध्यवसायस्थानानि भवन्ति । तथाहि-येऽस्यान्तमुहर्तप्रमाणस्य गुणस्थानस्य 'प्रथमसमयं प्रतिपन्नाः प्रतिपद्यन्ते प्रतिपत्स्यन्ते च तान् सर्वानपेक्ष्य जघन्यादीन्युत्कृष्टान्तान्यसङ्ख्येयलोकाकाशप्रदेशप्रमाणान्यध्यवसायस्थानानि लम्यन्ते । क्वचित्कदाचित्केषाश्चित्प्रथमसमयवर्तिनां परस्पर
प्र. आ मध्यवसायस्थाने नानात्वस्यापि भावात् । तस्य च नानात्वस्यैतावत एव केवलज्ञानेनोपलब्धत्वात् ।
३७८ अत एव चेदमपि न वाच्यं कालत्रयवर्तिनामेतद्गुणस्थानकप्रथमसमयप्रतिपत्तणामानन्त्यात्परस्परमध्यवसायस्थानानां नानात्वाच्चानन्तान्यध्यवसायस्थानानि प्राप्नुवन्ति, बहूनां प्राय एकाध्यवसायस्थानवर्तित्वात् । ततो द्वितीयसमये तदन्यान्यधिकतराण्यध्यवसायस्थानानि लभ्यन्ते, तृतीयसमये तदन्यान्यधिकतराणि चतुर्थसमये तदन्यान्यधिकतराणीत्येवं यावच्चरमसमयः । एतानि च स्थाप्यमानानि विषमचतुरस्र क्षेत्रमास्तृणन्ति । स्थापना 8000° ।
||४७१ १ प्रथम-सि-वि.॥
0000