SearchBrowseAboutContactDonate
Page Preview
Page 491
Loading...
Download File
Download File
Page Text
________________ । प्रवचनसारोद्धारे सटीके द्वितीय खण्डः भव्या अपि यथाप्रवृत्तिकरणेन कर्म क्षपयित्वाऽनन्तशः समागच्छन्ति । ततो ग्रन्थिभेदं कतुमसमर्थाः पुनरपि व्यावृत्य संक्लेशवशादुत्कृष्टस्थितीनि कर्माणि कुर्वन्ति । कश्चित्पुनर्महात्मा समासन्नपरमनितिसुखः समुलसितप्रभृतदुनिर्वायवीर्यप्रसरो निसि(शि)ताकुण्ठकुठारधारयेवापूर्वकरणरूपया परमविशुद्धया यथोक्तस्वरूपस्य २२४द्वा ग्रन्थेर्मेदं विधाय मिथ्यात्वमोहनीयकर्मस्थितेरन्त हर्तमुदयक्षणादुपरि गत्वा अनिवृत्तिकरणसंज्ञितेनान्त- गुणमुहर्तकालमानं तत्प्रदेशवेद्यदलिकामावरूपमन्तरकरणं करोति । अत्र च यथाप्रवृत्ता-ऽपूर्वा-निवृत्तिकरणाना- स्थानका मयं क्रमो यथा | गाथा __ "जा गंठी ता पढमं गंठि समइन्छो भवे बीयं । अनियट्टीकरणं पुण सम्मत्तपुरक्खडे जीवे ॥२॥ 'गंठिं समइच्छओ' ति ग्रन्थि समतिकामतो भिन्दानस्येतियावत् । 'सम्मत्तपुरक्खडे ति प्र. आ. सम्यक्त्वं पुरस्कृतं येन स तथा तस्मिन् । आसन्नसम्यक्त्वे जीवे अनिवृत्तिकरणं भवतीत्यर्थः । एतस्मिथान्तरकरणे कृते तस्य कर्मणः स्थितिद्वयं भवति : अन्तरकरणादधस्तनी प्रथमा स्थितिरन्तमुहर्तमाना, तस्मादेव चान्तरकरणादुपरितनी द्वितीया, स्थापना चेयम्, तत्र प्रथमस्थितौ मिथ्यात्वदलिकवेदनादसौ मिथ्यादृष्टिरेच, अन्तमुहूर्तेन पुनस्तस्यामपगतायामन्तरकरणप्रथमसमय एवौपशमिकं सम्यक्त्वमवाप्नोति, मिथ्यात्वदलिंकवेदनाऽभावात् । यथा हि वनदवानलः पूर्वदग्धेन्धनमूपरं वा देशमवाप्य विध्या- । ॥४६७।। SA क यावत् प्रन्थिस्तावद् प्रथम प्रन्थि समतिकामतो भवेद् द्वितीयम् । अभित्तिकरणं पुनः पुरस्कृतसम्यक्त्वे जीवे ॥१॥ |
SR No.090383
Book TitlePravachansaroddhar Part 2
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherZZZ Unknown
Publication Year
Total Pages740
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy