SearchBrowseAboutContactDonate
Page Preview
Page 490
Loading...
Download File
Download File
Page Text
________________ प्रवचनसारोद्धारे मटीके २२४ द्वारे गुणस्थानकानि गाथा द्वितीय खण्ड: ॥४६६ प्र. आ. ३७७ सम्यक्त्वलाभो जघन्यतः समयमात्रेण उत्कृष्टतः पभिरावलिकाभिरपगच्छतीति । सह आमादनेन वर्तत इति सासादनः । सम्यग्-अविपर्यस्ता रष्टिः-जिनप्रणीतवस्तुप्रतिपत्तिर्यस्य स सम्यग्दृष्टिः, मासादनवासी सम्यग्दृष्टिश्च सासादनसम्यग्दृष्टिः, तस्य गुणस्थानं सासादनसम्यग्दृष्टिगुणस्थानम् । अथवा सह आसातनयाअनन्तानुवन्ध्युदयलझणया वर्तत इति सासातनः, स चासो सम्यग्दृष्टिश्च २, तस्य गुणस्थानं सामातनसम्यग्दृष्टिगुणस्थानम् , सास्वादनसम्यग्दृष्टिगुणस्थानमिति वा पाठः । तत्र मह सम्यक्त्वलक्षणरसास्वादनेन वर्तत इति सास्वादनः । यथा हि भुक्तक्षीरानविषयव्यलीकचित्तः पुरुषस्तद्वमनकाले 'क्षीराभरसमास्वादयति तथेषोऽपि मिथ्यात्वाभिमुखतया सम्यक्त्वस्योपरि न्यलीकचित्तः सम्यक्त्वमुद्वमन तद्रसमाम्वादयति, ततः स चामौ सम्यग्दृष्टिश्च २, तस्य गुणस्थानम् ।। एतस्वैवं भवति-दहापारमंसारपारावारान्तर्वी जन्तुर्मिथ्यादर्शनमोहनीयादिप्रत्ययमनन्तपुद्गलपरावर्तान् यावदनेकशारीरिकमानसिकदुःखलक्षाण्यनुभूय कथमपि तथाभव्यत्वपरिपाकवशनो गुरुतरगिरिसरित्प्रवाहबाह्यमानोपलघोलनाकल्पेनाध्यवसायविशेषरूपेणानाभोगनिवर्तितेन यथाप्रवृत्ति करणेनाऽऽयुर्वर्जानि ज्ञानावरणादिकर्माणि सर्वाण्यपि 'पृथपन्योयमयलयेयभागन्यूनैकसागरोपमकोटीकोटीस्थितिकानि करोति । अत्र चान्तरे कर्कशकर्मपटलापहस्तितवीर्यविशेषाणामसुमतामतिकठोरतरनिविडचिरप्ररूढगहनतरुग्रन्थिवद् दुर्भेदः कर्मपरिणामजनितो जीवस्य धनरागद्वेषपरिणामरूपो ऽभिन्नपूर्वो ग्रन्धिर्भवति । इमं च ग्रन्थि यावद १ श्रीरानरसानास्वादयति-सि.बि. ॥ २ पल्योपमासस्येयमागन्यून० इति प्राचीनकर्मप्रन्धटीकायाम् ४।२६, ५.१८॥ ३०मिनरूपो-मु.॥ ... नाता SSA THOMMENTS RENAR
SR No.090383
Book TitlePravachansaroddhar Part 2
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherZZZ Unknown
Publication Year
Total Pages740
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy