________________
प्रवचनसारोद्धारे सटीके
२२४३ गुणस्था कानि
द्वितीयः
गाथा
१३०२
॥४६॥
स्कन्धान-कन्धवपरिणामपरिणतानां बुद्धि परिकल्पिताः प्रकृष्टा देशा निविभागा 'भागा न्यर्थः । अत्रापि बहुवचनं प्रदेशानन्तत्वसंभावनार्थम् , परमाश्च ते अणवश्च परमाणवा-निर्विभागद्रव्यम्पाः । ननु प्रदेशपरमाण्योः कः प्रतिविशेषः १, उभयोरपि निर्विभागरूपत्वान् । उच्यते, म्कन्धप्रतिबद्धा निर्विभागाः प्रदेशाः ये तु स्कन्धत्वपरिणामरहिता विशकलिना एकाकिन एवास्मिन् लोके वर्तन्ते ते परमाणवः । तदेवमजीवाः-जीवव्यतिरिक्ताश्चतुर्दशविधा झापन्ति ! १ ॥ २५३ ।। ... इदानीं 'गुण चउदसगु' त्ति चतुर्विशत्युत्तरद्विशततमं द्वारमाहमिच्छे , सासण २ मिस्से ३ अविरय ४ देसे ५ पमत्त ६ अपमत्ते ७ ।। नियहि ८ अनियटि ९ सुहुमु १० चसम ११ खीण १२ सजोगि १३ अजोगि १४ गुणा ॥२॥
प्राचीन कर्मग्रन्थ ४, गा० २६ सूचनात् सूत्र' मिति न्यायात् 'पदैकदेशेऽपि पदसमुदायोपचाराद्वा' इहवं गुणस्थानकनिर्देशो द्रष्टव्यः । तद्यथा-मिथ्याइष्टिगुणस्थानम् , सासादुनसम्यग्दृष्टिगुणस्थानम् , सम्यग्मिथ्यादृष्टिगुणस्थानम् , अविरतसम्यग्दृष्टिगुणस्थानम् , देशविरतिगुणस्थानम् , प्रमत्तसंयतगुणस्थानम् , अप्रमत्तसंयतगुणस्थानम् , अपूर्वकरणगुणस्थानम् , अनिवृत्तिबादरसंपरायगुणस्थानम् , सूक्ष्मसंपरायगुणस्थानम् , उपशान्तकषायः धीतरागच्छमस्थगुणस्थानम् , क्षीणवायवीतरागच्छमस्थगुणस्थानम् , सयोगिकेवलिगुणस्थानम् , अयोगिकेवलिगुणस्थानम् इत्येतानि चतुर्दश गुणस्थानानि भवन्ति ।
मागा-सि. नास्ति ।
प्र.आ.