SearchBrowseAboutContactDonate
Page Preview
Page 485
Loading...
Download File
Download File
Page Text
________________ । प्रवचनसारोद्धारे सटीके अजीवभेदा: गाथा द्वितीयः १३०१ इह-जगति प्रवचने वा अनेन क्रमेण चतुर्दश जीवस्थानानि भवन्ति । तिष्ठन्ति जीवास्तत्तकर्यपारतन्यादेविति स्थानानि-सूक्ष्मपर्याप्त केन्द्रियत्वादयोऽन्तरविशेषाः, जीवानां स्थानानि जीवस्थानानि । केन क्रमेणेत्याह-सूक्ष्म-यादर भेदाद् द्विविधा एकेन्द्रियाः । तथा द्वीन्द्रियान्त्रीन्द्रियाश्चतुरिन्द्रियाः पञ्चेन्द्रियाश्चासंज्ञिसंझिभेदतो द्विधा मिलिताश्च मप्त । गते च सूक्ष्मैकेन्द्रि यादयः प्रत्येकं द्विविधाः-पर्याप्सा अपर्याताश्चेति । तथा विशेषश्चात्र-अपर्याप्तका द्विधा- या करणेन च, तत्र ये अपर्याप्तका एव सन्तो नियन्ते, न पुनः स्वयोग्यपर्याप्तीः सर्वा अपि समथ यन्ते ते लब्ध्यपर्याप्तकाः, ये पुनः स्वयोग्य करणानि-शरीरेन्द्रिया. दीनि नसामा नियन्ति, अब चावश्यं पुरस्तावितयिष्यन्ति ते करणापर्याप्तकाः । इह चैवमागमः लन्ध्यपर्याप्तका अपि नियमादाहारशरीरेन्द्रियपर्याप्तिपरिसमानावेव नियन्ते नार्वाक् , यस्मादागामिकमवायुद्ध या नियन्ते सर्व एव देहिनः, तच्चाहारशरीरेन्द्रियपर्याप्त्या पर्याप्तानामेव वध्यते' [ इति ॥ १३०० २२२ ॥ इदानीम् 'अजीव चउदसगो' ति त्रयोविंशन्युत्तरद्विशततमं द्वारमाह धम्मा १ऽधम्मा २ऽऽगासा ३ तियतियभेया तहेव अहा य १०।। __खंधा ११ देस १२ पएसा १३ परमाणु १४ अजीव चउदसहा ।। १३०१ ।। ० इह अजीवा द्विविधाः-रूपिणोऽरूपिणश्च । रूपमेयामस्तीतिरूपिणः । रूपग्रहणं गन्धादीनामुपलक्षणम् । तद्वयतिरेकेण तस्यासंभवात् । अथवा रूपं नाम स्पर्शरूपादिसंमृर्छनामिका मूर्तिः, तदेषामस्तीति रूपिण: १ सूक्ष्मा० सि वि.॥२ सर्वेपि-वि. ॥ 0 गाथेयं (१३०१) नवतत्त्वप्रकरणे (गा. ८) अपि विद्यते॥ ३७५ ॥४६१८
SR No.090383
Book TitlePravachansaroddhar Part 2
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherZZZ Unknown
Publication Year
Total Pages740
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy