________________
प्रवचनसारोद्धारे सटीके
२२२ स्थितिः गाथा १३००
द्वितीयः खण्ड:
[प्र. आ|३७४
॥४६॥
सम्मसम्परायलक्षणगुणस्थानकद्वयवर्ती जन्तुरुपशमकः, उपशान्तमोहगुणस्थानकवर्ती चोपशान्ता, तत्रानिवृत्तिबादर-सूक्ष्मसंपराययोश्चत्वारः 'पूर्ववदेव । उपशान्तमोहे तु चतुर्थ औपशमिकसम्यक्त्वचारित्ररूपा । पवमा पुगत्रयामागवि दर्शनसालक्षये उपशमश्रेणि प्रतिपद्यमानानाम् । तथाहि-क्षायिकसम्यक्त्वस्य औपशमिकचारित्रस्य च सद्भावादिति ।। ___तथा चत्वारो भावाः झीणापूर्वयो:-क्षीणमोहगुणस्थानके अपूर्वकग्णगुणस्थानके च, तत्र त्रयः पूर्ववदेव, चतुर्थस्तु क्षीणमोहे क्षायिकसम्यक्त्वचारित्ररूपः । अपूर्वकरणे तु क्षायिकसम्यक्त्वरूप औपशमिकसम्यक्त्वरूपो वेति । 'तिन्नि सेसगुणठाणगे' ति, त्रयः-त्रिसङ्ख्या भावा भवन्ति । केष्वित्याह- 'विभक्तिलोपात् शेषगुणस्थानकेषु-मिथ्यादृष्टि-मासादन--सम्यग्मिध्यादृष्टि-सयोगिकेवल्ययोगिकेवलिलक्षणेषु । तत्र मिथ्यादृष्टयादीनां त्रयाणामौदयिकक्षायोपशमिकपारिणामिकलक्षणास्त्रयः, सयोग्ययोगिकेवलिनोस्त्वी. दयिकमायिकपारिणामिकरूपा इति । नन्वमी त्रिप्रभृतयो भावा गुणस्थानकेषु चिन्त्यमानाः किं सर्वजीवाधारतया चिन्त्यन्ते ? आहोश्चिदेकजीवाधारतयेत्याह-'एगजिए'त्ति एकजीवे-एकजीवाधारतयेत्थं भावचिन्ता मन्तव्या। नानाजीवापेक्षया तु संभविनः मर्वेऽपि भावा भवन्तीति ॥ ९९ ॥ २२१ ॥ इदानीं 'जीवच उदसगो' ति द्वाविंशत्युत्तरद्विशततमं द्वारमाह
इह सुहुमबायरेगिदियघितिचा असन्नि सन्नि पंचिंदि ।
पजत्तापजत्ता कमेण चरदस जियटाणा ॥१३००॥ [प्राचीन कर्मग्रन्थ ४, गा. ३] १ पूर्वशमिकवदेष-सि. वि. ॥२ विमक्तेर्लोपात्-मु.॥
॥४६॥