SearchBrowseAboutContactDonate
Page Preview
Page 482
Loading...
Download File
Download File
Page Text
________________ । भाव खण्ड : १२९८ तथा पञ्चसु चतुष्कसंयोगेषु मध्ये चतुर्योगयुग-चतुःसंयोगभङ्गाद्वयं चतसृष्वपि गतिषु संभवति । तथाहिप्रवचन २२१द्वा सारोद्धारे औषशमिक'सम्यग्दृष्टेरौदयिकौपशमिक--क्षायोपशमिकपारिणामिकभावचतुष्टयनिष्पन्नस्तृतीयो भङ्गः । सटीके क्षायिकसम्यपहाटेस्तु औदायिकः क्षायिका क्षायोपशमिकः पारिणामिक इत्येवरूपश्चतुर्थो भङ्गश्चतसृष्वपि गतिषु प्राप्यत इति । तथा मनुष्याणां पञ्चकयोगः-पूर्वोक्तभावपश्चकसंयोगः संभवति । केवलं क्षायिकसम्यग्दृष्टयः | गाथा द्वितीयः । सन्तो ये उपशमश्रेणि प्रतिपद्यन्ते तेषामेव न पुनरन्येषाम् । समुदितभावपञ्चकस्य तेषामेव भावादिति : ९७॥ उक्ता जीवानधिकृत्य सर्वेऽपि भावाः । इदानी को भावः कस्मिन् कर्मणि भवतीत्येतन्निरूपयितु माह-'मोहस्सेवे' त्यादि, अष्टानां कर्मणां मध्ये मोहनीयस्येवोपशमो-विपाकप्रदेशरूपतया द्विविधस्या॥४५८|| प्युदयस्य विष्कम्भणं नान्येषाम् , उपशमस्त्विह सर्वोपशमो विवक्षितो न देशोपशमः; तस्य सर्वेपामपि प्र. आ. कर्मणां संभवात् । तथा उदयावलिकाप्रविष्टस्यांशस्य क्षयेणानुदयावलिकाप्रविष्टम्योपशमेन-विपाकोदय- ३७४ निरोधलक्षणेन निवृत्तः क्षायोपशमिकः । स चतुर्गामेव धातिकर्मणां-बानावरण-दर्शनावरण-मोहनीयाऽन्तरायरूपाणां भवति न शेषकर्मणाम् । चतुर्णामपि च केवलज्ञानावरण-केवलदर्शनावरणरहितानाम् । तयोक्पिाकोदयविष्कम्भावतः क्षयोपशमासंभवात् । उदयक्षयपरिणामा अष्टानामपि कर्मणां भवन्ति । तत्र उदयो-विपाकानुभवनम् , तस्य सर्वेषामपि संसारिजीवानामष्टानामपि कर्मणां दर्शनात् ; मयः-आत्यन्तिकोच्छेदः, स मोहनीयस्य सूक्ष्मसंपरायगुणस्थानकस्य चरमसमये । शेषाणां तु त्रयाणां पातिकर्मणां क्षीणकषायगुणस्थानकम्य, अघातिकर्मणामयोगिकेवलिनः । तथा परिणमनं परिणामा-जीवप्रदेशैः सह ४१ सम्यारत्वो विक० सि.पि.॥ T HRITISH YAR NAL
SR No.090383
Book TitlePravachansaroddhar Part 2
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherZZZ Unknown
Publication Year
Total Pages740
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy