SearchBrowseAboutContactDonate
Page Preview
Page 481
Loading...
Download File
Download File
Page Text
________________ w प्रवचन सारोद्धारे सटिके द्वितीयः खण्ड: ॥४५७॥ 11 सन्नुपशमश्रेणि प्रतिपद्यते तस्य संभवति । तथाहि औदयिकं मनुष्यत्वादि, औपशमिकं चारित्रम्, क्षायिक सम्यक्त्वम्, क्षायोपशमिकमिन्द्रियादि, पारिणामिकं जीवत्वादि । सिद्धेषु पुनरेको द्विकसंयोगलक्षणः सान्निपातिकभेदः । तद्यथा- क्षायिकः पारिणामिक इति । तत्र क्षायिकं सम्यक्त्व केवलज्ञानादि, पारिणामिकं जीवत्वम् । केवलिनां त्वेक स्त्रिसंयोगलक्षणः सान्निपातिकभेदः; तद्यथा-औदयिकः, क्षायिकः, पारिणामिकः, तत्रौदयिकं मनुप्यत्वादि, क्षायिकं केवलज्ञानादि, पारिणामिके जीवत्वमव्यत्वे । एवमनेन गत्यादिषु संयोगपट्कचिन्तनप्रकारेणाविरुद्धाः परस्परविरोधाभावेन संभविनः पञ्चदश सान्निपातिकभेदाः षट्कभावविकल्पा भवन्ति । विंशतिसङ्ख्याः पुनर्भङ्गा असंभविनः संयोगोत्थानमात्रतयैव 'संभवन्ति, न पुनर्जीवेषु कदाचिदपि प्राप्यन्ते इति ॥ ९५ ॥ ९६ ॥ अथैत एव संभविनः पड् भङ्गा येषु जीवेषु संभवन्ति तानाह - ' - 'दुगे' त्यादि, दशसु द्विक्संयोगेषु मध्ये क्षायिक परिणामिकभावद्वयनिष्पन्नो नवमो द्विक्संयोगः सिद्धानां संभवति । शेषास्तु नव प्ररूपणामात्रम् । अन्येषां तु जीवानामौदयिकी गतिः क्षायोपशमिकानीन्द्रियाणि पारिणामिकं तु जीवत्वमित्येतावत्रयं जघन्यतोSपि लभ्यत इति । तथा केवलिनां संसारिणां च त्रिकसंयोगः । तत्र दशसु त्रिकसंयोagar aaoor औदयिक क्षायिक पारिणामिकमावत्रयनिष्पन्नः पञ्चमो भङ्गः संभवति । औपशमिकस्य मोहनीयाश्रितत्वेन तत्क्षयवर्ता केवलिनामसंभवात् । क्षायोपशमिकस्यापि इन्द्रियाद्यभावतोऽसंभवाद्, 'अतीन्द्रियाः केवलिन ' इति वचनात् । संसारिणां तु चतुर्गतिकजीवानामौदयिक क्षायोपशमिक-पारिणामिकमात्रय निष्पन्नः षष्ठस्त्रिसंयोगः 'संभवति । शेषास्त्वष्ट प्ररूपणामात्रम्, क्वाप्यसंभवादिति । १ संति-सि.वि. ।। २ त्रिकयो० सि. वि. ॥ ३ भवति खि. वि. || २२१द्वारे भाव षट्कम गाथा १२९० १२९८ प्र. आ. ३७३ ॥४५७॥
SR No.090383
Book TitlePravachansaroddhar Part 2
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherZZZ Unknown
Publication Year
Total Pages740
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy