________________
प्रवचन
सारोद्धारे
सटीके
द्वितीयः खण्ड
गाथा १२९०१२९८
।।४५६॥
चिन्त्यमानस्य चत्वारो मेदा भवन्ति । इदमुक्तं भवति-औदयिकः क्षायोपशमिकः पारिणामिक इत्ययं त्रिकसंयोगनिष्पनो भङ्गो गतिमेदाच्चतुर्धा भिद्यते, तद्यथा-निरयगतावौदयिकं नैरयिकत्वम् , क्षायोपशमिकमिन्द्रियादि, पारिणामिकं जीवत्वादि। 'तिर्यग्गताचौदायिक तिर्यग्योनित्वम् , क्षायोपशमिकमिन्द्रियादि, पारिणामिकं जीवत्वादि । एवं नरसुरगत्योरपि भावना काय। ___तथा एतैरेवौदयिकादिभिस्त्रिभिः क्षायिकसहितैर्निष्पन्नस्य सान्निपातिकस्य भावस्य चत्वारो भेदा भवन्ति । अयमर्थ:-अमीषामेव त्रयाणां भावानां मध्ये यदा क्षायिको भावश्चतुर्थः प्रक्षिप्यते तदा चतुष्कसंयोगो भवति । एवं चामिलपनीयः-औदयिका, क्षायिकः, क्षायोपशमिका, पारिणामिकः । एषोऽपि गतिभेदाच्चतुर्धा, तद्यथा-औदयिकी नरकगतिः, क्षायिकं सम्यक्त्वम् , क्षायोपशमिकमिन्द्रियादि, पारिणामिक जीवत्वादि । एवं तिर्यग्नरसुरगतिष्वपि भावनीयम् । प्रकारान्तरेण चतुःसंयोगे एव चतुर्भेदानाह-तदभावे-अनन्तरप्रक्षिप्ततायिकभावाभावे औपशामिकभावयुक्तैरौदयिकादिभिरेव चत्वारो भेदा भवन्ति । एत दुक्तं भवति-यदा क्षायिकभावस्थाने औपशमिको भावः प्रक्षिप्यते तदापि चतुष्कसंयोगो भवति । एवं चामिलापा-औदयिकः, औपशमिकः, क्षायोपशमिका, पारिणामिकः । एषोऽपि गतिभेदात्यागिव चतुर्धा भावनीयः । नवरमौंपशमिकं सम्यक्त्वमवगन्तव्यम् ।
तथा 'एककः-एकसङ्खथः सानिपातिको भेद उपशमश्रेणिसिद्धकेवलिषु भवति । तत्र औदयिकः, औपशमिकः, क्षायिका, क्षायोपशमिका, पारिणामिक इत्येवंरूप एकः पञ्चकसंयोगो यः क्षायिकः सम्यग्दृष्टिः
१ तिर्यग्जाता० सि. ॥ २ एकेका-सि.वि. ॥
प्र.
आ.
| ॥४५६