________________
प्रवचनसारोद्धारे सटीके
१०४ द्वारे अप्रति
विहारः गाथा ७७३७७९
द्रव्याद्यप्रतिबद्धस्यैव सफला, यदि पुनरमुकं नगरादिकं गत्वा तत्र महर्द्धिकान् बहन् वा श्रावकानुपार्जयामि तथा च करोमि यथा मां विहायापरस्य ते भक्ता न भवन्तीत्यादिद्रव्यप्रतिबन्धेन, तथा 'निवातवसत्यादिजनितरत्युत्पादकममुर क्षेत्रए, तु न शानिमित्यादिक्षेत्रप्रतिबन्धेन तथा परिपक्वसुरभिशाल्यादि. शस्यदर्शनादिरमणीयोऽयं विहरता शरत्कालादिरित्यादिकालप्रतिबन्धेन तथा स्निग्धमधुराबाहारादिलामेन तत्र गतम्य मम शरीरपुष्टथादि सुखं भविष्यति, अत्र तु न तत्सम्पद्यते, अपरं चैवमुद्यतबिहारेण बिहरन्तं मामेवोद्यतं लोका भणिष्यन्ति, अमुकं तु शिथिलमित्यादिभावप्रतिबन्धेन च मामकल्पादिना विहरति तदाऽसौ विहारोऽपि कार्यासाधक एव । तस्मादवस्थान विहारो वा द्रव्यायप्रतिबद्धम्यव साधक इति ॥७७२।।
____ अथ पराभिप्रायमाशङ्कय परिहारमाह-'मुत्तणे त्यादि, मुक्त्वा-विहाय मायकल्प-मासविहारमन्यः सूत्रे-मूलागमे तु शब्दस्य एवकारार्थत्वान्नास्त्येव विहारस्तथाऽश्रवणात , तत् कथं-कस्मादादिग्रहणमनन्तरगाथायाम् ?, तत्राह-'कज्जे'त्ति कार्ये तथाविधे सति न्यूनादिभावेन-न्यूनाधिकभावात्कारणादादिग्रहणम् , अयमाशयः-माधुमिस्तावन्मासकल्पेनैव मुख्यतो विहारः कार्यः, कारणवशतः पुनः कदा. चिदपूर्णेऽपि मासे विहारः क्रियते कदाचिच्चाधिक्येनापि क्रियते, इत्येतदर्थमादिग्रहणं कृतम् ॥७७३॥
एतदेव प्रकटीकुर्वनाह ---'कालाई' त्यादि, कालादिदोषतः क्रियते--काल-क्षेत्र-द्रव्य-भावदोषानाश्रित्य, तत्र कालदोषो-दुर्भिक्षादिः, क्षेत्रदोषः-संयमाननुगुणत्वादिः, द्रव्यदोषो-भक्तपानादीनां शरीराननुकूलता, भावदोषो-ग्लानत्वज्ञानादिहान्यादिः । यद्यपि 'न' नैव 'द्रव्यतो' बहित्यिा 'एष' मासकल्पः, 'क्रियते' विधीयते, तथापि नियमाद' अवश्यतया 'भावेन' भावतः क्रियते एकस्थानस्थितैरपि यतिभिः ।
१निर्वात मु.॥
प्र.आ. |२२५
Santanaman
॥२४॥