________________
S
प्रवचन
सारोद्वारे
सटीके
द्वितीय:
खण्ड:
॥४५३॥
क्षायोपशमिक्य उच्यन्ते ताः क्षयोपशमसंभूताः छद्मस्थानामेवेति । सम्यवत्वमपि क्षायोपशमिकं दर्शनसप्तकक्षयोपशमे, चारित्रचतुष्कं तु चारित्रमोहनीयक्षयोपशमे, संयमासंयमश्चाप्रत्याख्यानावरणकषायमोहनीयक्षयोपशमे इति ॥ ९२ ॥
सांप्रतमेकविंशतिमौदयिक भावभेदानाह - 'उगई' त्यादि एतं सर्वेऽपि गत्यादयो भावाश्चतुर्थे औदयि भावे भवन्ति । तथाहि - चतस्रो नरकादिगतयो नरकगत्यादिनामक मदियादेव जीवे प्रादुष्पन्ति । कषाया अपि क्रोधादयश्चत्वारः कषायमोहनीय कर्मोदयात् । लिङ्गत्रिकमपि स्त्रीवेदादिरूपं स्त्री वेदपु वेदनषु सकवेदमोहनीय कर्मोदयात् । लेश्यापट्कं तु 'योगपरिणामो लेश्या' इत्याश्रयणेन योगत्रिकजनककर्मोदयात् । येषां तु मते कषायनिदो लेश्यास्तदभिप्रायेण कपायमोहनीय कर्मोदयात् । येषां तु कर्मनिदो लेश्यास्तन्मतेन तु संसारित्वासिद्धत्ववदष्टप्रकारकर्मोदयादिति । अज्ञानमपि - विपर्यस्त बोधरूपं मत्यज्ञानादिकं ज्ञानावरणमिध्यात्वमोहनीयोदयात् यत्तु पूर्वमस्यैव मत्याद्यज्ञानस्य क्षायोपशमिकत्वमुक्तं तद्वस्त्वबोध मात्रापेक्षया; सर्वमपि हि वस्त्वमात्रं विपर्यस्तमविपर्यस्तं वा ज्ञानावरणीय कर्मक्षयोपशम एव भवति । यत्पुनस्तस्यैव विपर्यासलक्षणमज्ञानत्वं तद् ज्ञानावरणमिध्यात्वमोहनीय कर्मोदय एव संपद्यते । इत्येकस्यैवाज्ञानस्य क्षायोपशमिकत्वमौदयिकत्वं च न विरुध्यते । इत्येवमन्यत्रापि विरोधपरिहारः कर्तव्य इति । मिध्यात्वं मिथ्यात्वमोहनीयोदयात् ; असिद्धत्वं - कर्माष्टकोदयात् : असंयमः --अविरतत्वम्, तदप्यप्रत्याख्यानावरण कपायोदयादुपजायत इति ।
१ च- मु.॥
२२१द्व
ओदायि
भेदाः
गाथा
१२९०
१२९८
प्र. आ.
३७२
।।४५३।