________________
प्रवचन
सारोद्धारे।
ओपश
सटीके द्वितीयः
क्षायिः
भेदाः
तत्र चैवं शब्दव्युत्पत्तिः- उपशम एवौपशमिकः, 'म्वार्थिक इकणप्रत्ययः, यद्वा उपशमेन निवृत्त औपशमिक:-क्रोधाद्यदयाभावफलरूपो जीवस्य परमशान्तावस्थालक्षणः परिणामविशेषः । क्षय:-कर्मणामत्यन्तोच्छेदः, क्षय एव क्षायिकः क्षयेण वा निवृत्तः क्षायिका-तत्कर्माभावफलरूपो विचित्रो जीवस्य परिणतिविशेषः । उदीयावरण ज्ञाः, अनुस्य चाशस्य विपाकमधिकृत्योपशमः क्षयोपशमः, स एव क्षायोपशमिकः तेन वा निवृतो घातिकर्मक्षयोपशमसंपाद्यो मतिज्ञानादिलब्धिरूप आत्मनः परिणामविशेषः क्षायोपशमिकः । अष्टानां कर्मणां यथास्वमुदयसमयप्राप्तानामात्मीयात्मीयस्वरूपेणानुभवनमुदयः, उदय एबौदयिका, या उदयेन निवृत्त औदयिको भावो-नारकत्वादिपर्यायपरिणतिरूपः । परिणमनं परिणाम:कथञ्चिदवस्थितस्य वस्तुनः पूर्वावस्थापरित्यागेनोत्तरावस्थागमनं स एव तेन वा निवृत्तः पारिणामिकः । :. . एषामेष यथाक्रम भेदानाह- 'दुनवे' त्यादि, द्वौ, नव, अष्टादश, एकविंशतिस्त्रयश्च यथाक्रमेण भेदा येषां ते तथा, सान्निपातिकश्च षष्ठो भावः, सनिपतनं सन्निपातो-मिलनं स एव तेन वा निवृत्तः सान्निपातिका, औदयिकादिभावद्वयादिसंयोगनिष्पाद्योऽवस्थाविशेष इत्यर्थः ॥ १० ॥
साम्प्रतमीपशमिक क्षायिकभेदान् द्विनवसङ्खधान व्याख्यातुमाह-'सम्मे'त्यादि सम्यक्त्वं चारित्रं चौपशमिकम् , प्रथमे औपशमिके भावे वर्तते । औषशमिकं हि सम्यक्त्वं 'दर्शनसप्तके चारित्रं तु चारित्रमोहनीये उपशान्ते संभवति । अत औपशमिकभाववर्तित्वमनयोरिति । तथा 'दसणनाणाई ति 'सूचक
१ स्वार्थिक इकणप्रत्ययः-सि. नास्ति ।। २ परिणाम सि. वि. नास्ति । ३०क्षायिका सि.वि. नास्ति ।। ४ क्त्व-सि.बि.॥ ५ दर्शनमोहनीये-कि. ॥
प्र.
आ