SearchBrowseAboutContactDonate
Page Preview
Page 470
Loading...
Download File
Download File
Page Text
________________ प्रवचनमारोद्धारे मुटीके साबाधा द्वितीयः खण्ड: स्थितिः गाथा १२८२ सकपायानकषायांश्च प्रतीत्य तत्राकषायाणां वेदनीयस्थितिर्बिसमयस्थितिका; यतस्तत्कर्म प्रथमसमये बद्धं द्वितीयसमये वेदितं तृतीयसमयेऽकर्मतामनुभवति, अषायाणां कषायरहितत्वेन बहुतरस्थितिबन्धासंभवात् , सकपायाणां तु सूत्रोपात्ता द्वादशमुहूर्ता जघन्या स्थितिः। अन्तर्मुहूर्तमबाधा, अबाधाकालहीनश्च कर्मदलिकनिषेकः । तथा नाम-गोत्रयोः प्रत्येकमष्टौ अष्टौ मुहूर्ता जघन्या स्थितिः अन्तमुहूर्तमबाधा अबाधाकालहीनश्च कर्मदलिकनिषेकः । तथा शेषाणां-ज्ञानावरण-दर्शनावरणा ऽन्तराय मोहनीया-5ऽयुषां जघन्या स्थिति मुहूर्तान्तः-अन्तम हूर्तम् । 'अत्राप्यन्तमुहूर्तमबाधा नवरं तल्लघुतरमवसेयम् ; अबाधाकालहीनश्च कर्मदलिकनिषकः । तदेवमुक्ता मूलप्रकनीनामुत्कृष्टा जघन्या च स्थितिः, उत्तरप्रकृतीनां तु कर्मप्रकृत्यादिग्रन्थेभ्योऽबसेया ॥ ८१ ॥ साम्प्रतमेतेषामेव कर्षणामुत्कृष्टस्थिनमायाकालपरिमाणमाद-'जात्यादि, यम्य कर्मणो यावत्यः सागरोपम कोटीकोटय उत्कृष्टा स्थितिः प्रतिपादिता तस्य कर्मणस्तावन्मात्राणि वर्षशतानि भवत्युत्कृष्टोऽवाधाकालः । यथा मोहनीयस्य सप्ततिसागरोपमकोटीकोट्य उत्कृष्टा स्थितिः, ततस्तस्य सप्ततिवर्षशतान्यबाधा, एवं सर्वत्रापि भावनीयम् । आयुषि पुनरुत्कृष्टोऽवाधाकालो भवत्रिभागः-पूर्वकोटित्रिभागलक्षणः, पूर्वकोटित्रि भागमध्ये बध्यमानायुर्दलिकनिषेकं न विदधातीत्यर्थः । वेद्यमानस्य ह्यायुषो द्वयोस्त्रिभागयोरतिक्रान्तयोस्तृतीये भागेऽवशिष्टे परभवायुषो बन्धः ततः पूर्वकोटित्रिभागो लभ्यते; जघन्या त्वबाधा सर्वेषामपि कर्मणामन्तमुहूर्तप्रमाणेति ।। ८२ ॥ २१८ ।। १ अन्तर्मुहूर्तमबाधा-सि. वि.॥२ गात्-सि० वि०॥ प्र. आ. ॥४४६ ... .... ... .....
SR No.090383
Book TitlePravachansaroddhar Part 2
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherZZZ Unknown
Publication Year
Total Pages740
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy