SearchBrowseAboutContactDonate
Page Preview
Page 469
Loading...
Download File
Download File
Page Text
________________ प्रवचन- सारोद्धारे सटीके साबाधा द्वितीयः खण्ड: 'मोहे-मोहनीये षष्ठी-सप्तम्योरथं प्रत्यभेदात् मोहनीयस्य कर्मण उत्कृष्टा स्थितिः सप्ततिसागरोपमकोटीकोट्यः । इह द्विधा स्थितिः, तद्यथा-कर्मरूपतावस्थानलक्षणा अनुभवयोग्या च । तत्र कर्मरूपतावस्थानलक्षणामेव स्थितिमधिकृत्योत्कृष्टं जघन्यं वा प्रमाणमभिधातुमिष्टमवगन्तव्यम् अनुभवयोग्या पुनरवाधाकालहीनाः येषां च कर्मणां यावत्यः सागरोपमकोटीकोटयः तेषां तावन्ति वर्षशतान्यबाधाकालः । तेन मोहनीयस्योत्कृष्टा स्थितिः सप्ततिसागरोषमकोटीकोट्य इति तस्य सप्ततिवर्षशतान्यबाधाकालः । तथाहि-तन्मोहनीयमुत्कृष्टस्थितिकं बद्धं सत् सप्ततिवर्षशतानि यावन्न काश्चिदपि स्वोदयतो जीवस्याबाधामुत्पादयति, अबाधाकालहीनश्च कर्मदलिकनिकः । किमुस्तं भवति ?-सप्तनिवातप्रमाणेषु समयेषु मध्ये न वेद्यदलिकनिक्षेपं करोतिः किन्तु तत उर्ध्वमिति । तथा नाम-गोत्रयोरुत्कृष्टा स्थितिविंशतिसागरोपमकोटीकोटयः, द्वे वर्षसहस्र अबाधा; अबाधाकालहीनश्च कर्मदलिकनिषेकः । तथा इतरेषां चतुणां-ज्ञानावरण-दर्शनावरण-वेदनीया-ऽन्तरायाणां त्रिंशत्सागरोपमकोटीकोटय उत्कृष्टा स्थितिः, त्रीणि वर्षसहस्राग्यबाधा; अबाधाकालहीनश्च कर्मदलिकनिषेकः । आयुष उत्कृष्टा स्थितिस्त्रयस्त्रिंशदतराणि-सागरोपमाणि; 'पूर्वकोटित्रिभागोबाधा, अबाधाकालहीनश्च कर्मदलिकनिपेकः । सूत्रकृता स्वसौ पूर्वकोटित्रिभागोऽबाधारूपतयेवापयाति, न पुनरुदयमायाति, अतो यावती स्थितिरायुषो वेद्यते तावत्येवाबाधारहितोपात्तेति ||८|| ___ अथ उत्कृष्ट स्थितिनिगमनपूर्व जघन्यो स्थितिमाह-'एसे'त्यादि, एषा पूर्वोक्ता उत्कृष्टा स्थिति इतरा-जघन्या पुनर्वेदनीये-वेदनीयस्य द्वादश मुहर्ताः; इह द्विधा वेदनीयस्य जघन्या स्थितिः प्राप्यते १ तुला-पञ्चसमहटीका ५। ३१ प. २१८ ॥ २ पूर्वकोटित्रिभागाभ्यधिकानि पूर्वकोटिस्त्रिभागो भयाधाकालहीनश्च-सि. वि.।। स्थितिः गाथा १२८० ૨૨૮૨ ॥४४॥ ४४५
SR No.090383
Book TitlePravachansaroddhar Part 2
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherZZZ Unknown
Publication Year
Total Pages740
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy