________________
वचनरोटार
टिके
२१७द्वारे बन्धादिस्वरुपम गाथा १२७६. १२७९
तीयः
४४१॥
एकमेव सातं बध्नत एकविधो बन्धः । तथा सत्तायामुदये च सर्वप्रकृति समुदाये अष्टौ प्राप्यन्ते; मोहनीयस्य उदयसत्ताव्यवच्छेदे सप्त । घातिकपणी-ज्ञान-दर्शनावरणा-ऽन्तरायाणामुदयसत्ताव्यवच्छेदे चतस्रः। तथा सर्वप्रकृतिसमुदायेऽष्टौ प्रकृतीरुदीरयति । आयुष उदीरणायामपगतायामायुर्वर्जाः सप्तः वेदनीया.ऽऽयुषोरुदीरणायामपगतायां षड्विधं कर्मोदीरयति । वेदनीयमोहा-ऽऽयुषामुदीरणाऽपगमे पञ्च प्रकृतीरुदीरयति । अषायी केवली नाम-गोत्र-लक्षणे द्वे कर्मणी उदीरयति ।
अथैतान्येव बन्धादिस्थानानि विनेयव्युत्पत्तये गुणस्थानकयोजनया विभाव्यन्ते-मिथ्यादृष्टयादयो मिश्रवर्जिता अप्रमत्तान्ता अष्ट सप्त वा कर्माणि बध्नन्ति । आयुः कदाचिदेव बद्धयते, इत्यायुर्वन्धकाले अष्ट, आयुन्धाभावे तु सप्तैत्र । मिश्रा-ऽपूर्वकरणा-निवृत्तिवादरास्तु सप्तव बध्नन्ति; तेषामायुर्घन्धाभावात् , तत्र मिश्रस्य तथास्वाभाव्यात् इतरयोः पुनरतिविशुद्धत्वात् आयुर्वन्धस्य च घोलनापरिणामहेतुत्वात् । तथा सूक्ष्मसंपरायो मोहनीया-ऽऽयुर्वर्जानि षट् कर्माणि बध्नाति; 'मोहनीयबन्धस्य बादरकपायोदयहेतुत्वात् तस्य च तदभावात् आयुर्वन्धाभावस्त्वतिविशुद्धतरत्वादवसेयः। तथा उपशान्तमोह-क्षीणमोह-सयोगिकेवलिन एकविधं सातवेदनीयं कर्म बध्नन्तिः न शेषाणि, 'तद्वन्धहेतुत्वाभावात् । अयोगिकेवली तु योगस्यापि बन्धहेतोरमावादबन्धकः ।
तथा मिथ्यादृष्टिगुणस्थानकादारभ्य यावत्सूक्ष्मसंपरायगुणस्थानं तावदष्टावपि कर्मप्रकृतय उदये सत्तायां च प्राप्यन्ते । सर्वत्रापि मोहनीयोदय-सत्तयोः प्राप्यमाणत्वात् । उपशान्तमोहे उदये सप्त प्राप्यन्ते;
१ मोहनीयबन्धनस्य-मि. वि. ॥ २ तदुबन्धहेत्वमावात्-मु.॥
प्र.
आ.