SearchBrowseAboutContactDonate
Page Preview
Page 460
Loading...
Download File
Download File
Page Text
________________ खण्डः | मिमभिन्नशरीरसंभवात् । केवलं श्लेषद्रव्यविमिश्रितसकलसर्षपवतिरिव प्रबलरागद्वेषोपचिततथारूपप्रत्येकसारोद्धार नामकर्मपुद्गलोदयतस्ते तथा परस्परविमिश्रशरीरा जायन्ते । तथा चोक्तं प्रज्ञापनायामेवसटीके "जह सगलसरिनाले सिलेसमिटमा बडिया नट्टी । पत्तेयसरीराणं तह हॉति सरीरसंघाया ॥१॥ द्वितीयः जह वा तिल पपडिया बहुएहिं तिलेहिं मीसिया संती । पत्तेयसरीराणं तह होति सरीरसंघाया ॥२॥ [पद १ । सू. ५३ गा. ४५-६] ॥४३६॥ गाथाद्वयस्याप्ययमक्षरार्थः-यथा सकलसर्पपाणां श्लेषद्रव्येण मिश्रीकृताना वर्तिता-बलिता वर्तिः, यथा च बहुभिस्सिलैर्विमिश्रिता सती तिलपर्पटिका भवति, तथा प्रत्येकशरीरिणां शरीरसङ्घाताः । इयमत्र भावना-यथा तस्या वतौ सकलसर्पपाः परस्परं भिन्ना नान्योऽन्यानुवेधभाजस्तथा प्रदर्शनात , अत एव सकलग्रहणं येन स्पष्टमेव 'अन्योऽन्यानुवेधामावः प्रतीयते, एवं वृक्षादावपि मूलादिषु प्रत्येकमसङ्ख्येया अपि जीवाः परस्परं विभिन्नशरीराः । यथा च ते सर्पपाः श्लेषद्रव्यमंपर्क माहात्म्यात परस्परं विमिश्रा जातास्तथा प्रत्येकशरीरिणोऽपि ते तथारूपप्रत्येकनामकर्म पुद्गलोदयात्परस्परं संहता जाता इति । तथा यदुदयवशादनन्तानां जीवानामेकं शरीरं भवति तत्साधारण नाम । ननु कथमनन्तान जीवानामेकं शरीरमुपजायते १, तथाहि-य एव प्रथममुत्पत्तिदेशमागतस्तेन तच्छरीरं निष्पादितम् , अन्योऽन्यानुगमनेन च सर्वात्मना क्रोडीकृतम् । ततः कथं तवान्येषां जीयानामवकाशः ?, न खलु देवदत्तशरीरे १ भिन्नशरीर० सं. वि. ॥ २ सिलपपलिया-सि. वि. ॥ ३ अन्योन्योनुकेधावतः वि. । ४ (मादाम्यात-मु.॥ ५ पुद्गलोदय-सं. पुद्गलोदयतः सि-वि.॥ २१६ द्वारे नामकर्मण उत्तरप्रकृतयः | गाथा १२५१. १२७५ प्र.आ. ॥४३६॥
SR No.090383
Book TitlePravachansaroddhar Part 2
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherZZZ Unknown
Publication Year
Total Pages740
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy