________________
प्रवचन
रोद्धारे
सटीके
द्वितीय
१४३५॥
व्यादेरेकैकस्य जन्तुशरीरस्य चक्षुर्ग्राह्यत्वाभावेऽपि बहूनां समुदाये चक्षुषा ग्रहणं भवति तद्विपरीतं सूक्ष्मनाम | यदुदयाद्बहूनामपि समुदितानां जन्तुशरीराणां चक्षुर्ग्राह्यता न भवति ।
तथा यदुदयात्स्वयोग्य पर्याप्तिनिर्वर्तनसमर्थो भवति तत्पर्याप्तकनाम । यदुदयाच्च स्वयोग्य पर्याप्ति परिसमार्थो न भवति तदर्यातनाम । पर्याप्तस्वरूपं तु द्वाविंशत्यधिकद्विशततमद्वारे विशेषेण वक्ष्यते ।
तथा यदुदयात् जीवं जीवं प्रति भिन्नं शरीरमुपजायते तत्प्रत्येकनाम । तस्योदयः प्रत्येकशरीरिणाम्, प्रत्येकशरीरिणश्च नारका डमर मनुष्य- द्वीन्द्रियादयः पृथिव्यादयः कपित्थादितरवश्च । नतु यदि प्रत्येकनाम्न उदयः कपित्थादिपादपादीनामिष्यते तर्हि तेषां जीवं जीवं प्रति भिन्नं शरीरं भवेत् । न च भवति यतः कपित्था श्वत्थ- पीलु-शेल्वादीनां मूल-स्कन्ध-त्वक्शाखादयः प्रत्येकमसङ्ख्येयजीवा उच्यन्ते । यत उक्त प्रज्ञापनायाम् एकास्थिक बहुबीज वृक्षप्ररूपणावसरे
"एएस मूला असंखेज्जजीविया कंदावि खंधावि तयावि सालावि पवालावि, पत्ता पतेयजीवीया" [पद १.४०] इत्यादि
मूलादयश्च फलपर्यन्ताः सर्वेऽप्येकशरीराकारा उपलभ्यन्ते, देवदत्तशरीरवत् । यथा हि देवदत्त - शरीरमखण्डमेकरूपमुपलभ्यते तद्वन्मूलादयोऽपि तत एकशरीरात्मकाः कपित्थादयस्ते वासख्येयजीवाः, ततः कथं ते प्रत्येकशरीरिणः १, उच्यते, प्रत्येकशरीरिण एव तेषां मूलादिष्वसङ्ख्येयानामपि जीवानां १०. ॥ २० परिमाति० मु । ३ तच्च न मषति सु. ॥ ४ बहुजीववृक्ष० सि. बि. ॥ ५ मूलादिष्वपिस० बि० ॥
२१६ द्वारे
नाम
कर्मण
उत्तर
प्रकृतयः
गाथा
१२५१
१२७५
प्र.. आ. ३६५
1183411