________________
प्रवचनसारोद्धारे। सटीके
| २१६ द्वा नामकर्मण
द्वितीय खण्ड:
तथा यदुदयाज्जन्तुशरीराणि 'स्वरूपेणानुष्णान्यप्युनुष्णप्रकाशात्मकमुषोतमातन्वन्ति यथा 'यत्तिदेवोत्तरवैक्रिय-चन्द्र-ग्रह-नक्षत्र-तारा-विमान-रत्नौषधयस्तदुद्योतनाम ।
तथा 'विहायसा-नमसा गतिः-प्रवृत्तिविहायोगतिः । ननु सर्वगतत्वाद्विहायसस्ततोऽन्यत्र गतिर्न संभवतीति किमर्थ विहायसा विशेषणम् ? व्यवच्छेद्याभावात् । सत्यमतद, किन्तु यदि गतिरित्येवोच्यते ततो नाम्नः प्रथमप्रकृतिरपि गतिरस्तीति पौनरुक्त्याशङ्का स्यात् । अतस्तद्ववच्छित्तये विहायसा विशेषणम् . विहायसा गतिने तु नारकत्वादिपर्यायपरिणतिरूपेति विहायोगतिः । सा च द्वेधा-प्रशस्ता अप्रशस्ता च । तत्र प्रशस्ता हंस-हस्ति-वृषभादीनाम् , अप्रशस्ता तु खरोष्ट्र-महिषादीनामिति ।
तथा त्रस्यन्ति---उष्णाद्यभितप्ताः सन्तो विवक्षितस्थानादुद्विजन्ते गच्छन्ति च छायाद्यासेवनार्थ स्थानान्तरमिति प्रसा-द्वीन्द्रियादयः। तत्पर्यायविपाकवेद्यं कर्मापि त्रसनाम । तथा तिष्ठन्तीत्येवंशीला उष्णाद्यमितापेऽपि तत्स्थानपरिहारासमर्थाः स्थावरा:-पृथिव्यादय एकेन्द्रियादयः; तत्पर्यायविपाकवेयं कर्मापि स्थावरनाम । तेजो-वायूनां तु स्थावरनामोदयेऽपि चलनं स्वाभाविकमेव । न तूष्णाद्यमितापेन द्वीन्द्रियादीनामिव विशिष्टमिति ।
तथा 'यदुदयाज्जीवा बादरा भवन्ति तद्वादरनाम । बादरत्वं चात्र परिणामविशेषः; यद्वशात्पृथि
प्रकृतयः गाथा १२५१.
॥४३४||
प्र. आ.
RAM
॥४३४
१स्वरूपेणानुष्णान्यनु० मु. ॥२ यति० सि. वि. नास्ति ।। ३ तुला प्राचीनकर्मपन्य २ गा. १०५, प. १११, पञ्चI समाहटीका ३१६५. १९५ B॥४०सी-सि.वि. ॥५ तुला-पञ्चसमइटीका ३1८, प. ११६ B॥
EARS
NAHANEY RAMANA.IN