________________
प्रवचन- सारोद्वारे मटीके
२१६६ उत्तरप्रकृतयः गाथा
द्वितीयः संभव
१२५१
१२७५
तथा आदिः-इहोत्सेधाख्यो नामेरधस्तनो देहभागो गधते, ततः सह आदिना-नामेरधस्तनभागेन यथोक्तप्रमाणलक्षणेन वर्तत इसि सादि । यद्यपि च सर्वमपि शरीरमादिना सह वर्तते तथापि सादित्वविशेषणान्यथानुपपत्त्या विशिष्ट एवं प्रमाणलक्षणोपपन्न आदिरिह लक्ष्यते, तत उक्तं यथोक्तप्रमाणलक्षणेनेति । इदमुक्तं भवति-यसंस्थानं नाभेरधः प्रमाणोपपत्रमुपरि च हीनं तत्सादि इति । अपरे तु साचीति पठन्ति । तत्र साचीत प्रवषनवेदिनः शाल्मलीतरुमाचक्षते । ततः साचीव यत्संस्थानं तत्साचि, यथा शाल्मलीतरोः स्कन्धकाण्डमतिपृष्टमुपरि च न तदनुरूपा महाविशालता तद्वदस्यापि संस्थानस्याधो भागः परिपूर्णो भवति, उपरितनभागस्तु नेति भावः ।।
तथा वामनं मडहकोष्ठं पाणिपादधिरोपीवं यथोक्तप्रमाणलमणोपेतं शेष तूर-उदरादिरूपं कोष्ठं शरीरमध्यं मडह-लक्षणरहितं तद् यत्रत द्वामनमित्यर्थः ।
अधस्तनकायमडहं कुब्ज पाणि-पाद-शिरो-ग्रीवालक्षणोऽधस्तनकायो मडहो-लक्षणविसंवादी यत्र शेषं तु मध्यकोष्ठं यथोक्तलक्षणयुक्तं तत्कुञ्जम् , वाम नविपरीतमित्यर्थः । अन्ये तु दर्शितलक्षणव्यत्ययेन प्रथम कुन्ज ततो वामनं पठन्तीति ।
हुण्डं तु सर्वावययेषु प्रायो लक्षणविनिर्मुक्तम् , यस्यैकोऽप्यवयवः प्रायो न लक्षणयुक्तो भवति तत्सर्वत्रासंस्थितं हुण्डमित्यर्थः । ___तथा वर्ण्यते-अलक्रियते गुणवस्क्रियते शरीराधनेनेति वर्णः-कृष्णादिः पञ्चधा । तत्र कृष्ण
प्र. आ. ३६४