________________
प्रवचनसारोद्धारे सुटीके
२१६द्वारे उत्तरप्रकृतयः गाथा
द्वितीयः
१२७५
॥४२६॥
तथा नोशब्दः साहचर्ये; ततः कषायः सहचारिणः-सहवर्तिनो ये ते नोकषायाः, कैः कषायः सहचारिण इति चेद्, उच्यते आयेादशभिः । तथाहि-नायेषु द्वादशसु कषायेषु क्षीणेषु नोकषायाणा. मवस्थानसंभवः, तदनन्तरमेव तेषामपि क्षपणाय क्षपकस्य प्रवृत्तिः । अथवा एते प्रादुर्भवन्तोऽवश्यं कपायानुद्दीपयन्ति, ततः कषायसहचारिणः ।
ते च नोकषाया नव । तत्र यदृदये स्त्रियाः पित्तोदये मधुरद्रव्याभिलाषवत् पुस्यभिलाषः समुत्पद्यते स कुकूलाग्निसमानः स्त्रीवेदः । यदुदये पुसः स्त्रियामभिलाषो भवति श्लेष्मोदयेऽम्लाभिलाषवत् स तृणाग्निजालासमानः पुवेदः । यदुदये पण्डकम्य पिनश्लेष्मोदये 'मज्जिकाऽभिलाषवदुभयोरपि स्त्रीपुरुषयोरभिलापः समुदेति स नगरमहादाहसमानो नपुसकवेदः । तथा यदुदये सनिमित्तमानिमित्तं वा हसति तत् हास्यमोहनीयम् , यदुदयाद्राह्या ऽभ्यन्तरेषु वस्तुषु प्रीतिरुपजायते तद्रति. मोहनीयम् , एतेष्वेव यदुदयादप्रीतिरुपजायते तदरतिमोहनीयम् , यदुदयात्स निमित्तमनिमित्तं वा तथा. रूपस्वसंकल्पतो बिभेति तद्भयमोहनीयम् , यदुदयात्प्रियविप्रयोगादौ स्वोरस्ताड माक्रन्दति परिदेवते भूपीठे घ लुठति दीर्घ निःश्वमिति तच्छोकमोहनीयम् , यदुदयवशात्पुनः पुरीपादिबीभत्सपदार्थेषु जुगुप्सावान् भवति तज्जुगुप्सामोहनीयम् , तथा 'यदुदयाजिनप्रणीततवार्थानामश्रद्धानं विपरीतश्रद्धानं वा तन्मिध्यात्वम् । यदुदयात्पुनर्जिनप्रणीतं तत्वं न सम्यक् श्रद्धत्ते नापि निन्दति तन्मिश्रम् , सम्यग्मिथ्यात्वमित्यर्थः । यदुदयवशात्पुनर्जिनप्रणीतं तत्वं सम्यक् अद्धत्ते तत्सम्यक्त्वमिति ।
र माणिका• सु. ॥ २ निमित्तम. वि. नास्ति ॥ ३ यदुदयात्सनिमित्तमनिमित्तं वा तथानामबद्वान-वि.॥
प्र. आ.
॥४२६॥