________________
प्रवचन सारोद्धारे सटीके
® तथा वेदनीय कर्म, वेद्यते-सुखं दुःखं वा आत्मना ज्ञायते तद्वेदनीयम् , तच्च द्विधा-सातमसात च यदुदयवशादारोग्यविषयोपभोगादिजनितमालादरूपं 'सात-सुखं वेद्यते तत्सातवेदनीयम् । यदयवशाद्रोगादिजनितं परितापरूपमसात-दुःखमनुभूयते तदसातवेदनीयम् ।।
तथा कष्यन्ते-हिंस्यन्ते परस्परमस्मिन् प्राणिन इति कषः-संसारः, कषमयन्ते-गच्छन्त्येभिर्जन्तव इति कषाया:-क्रोध-मान-माया लोभाः । तत्र क्रोधः-अशान्तिपरिणतिरूपः, मानो-गर्यो जात्याद्यद्रवममार्दवम् , माया-वञ्चनाद्यात्मिका जीवपरिणतिः, लोभः-असंतोषात्मको जीवपरिणामः । ते च प्रत्येकमनन्तानुबन्ध्यप्रत्याख्यान-प्रत्याख्यानावरण-संज्वलनभेदाच्चतुर्धा । ततः षोडश ।
तत्र पारम्पर्येणानन्तं भवमनुबध्नन्ति- अनुसंदधतीत्येवंशीला अनन्तानुवन्धिनः । यद्यप्येतेषामन्यकषायरहितानामुदयो नास्ति तथाऽप्यवश्यमनन्तभवभ्रमणमूलकारणमिथ्यात्वो दयाक्षेपकत्वादेतेषामेवे - तन्नाम । न पुनः सहजोदयानामन्यकषायाणामपिः तेषामवश्यं मिथ्यात्वो दयाक्षेपकत्वाभावात् । नञोऽन्यार्थत्वादन्यं प्रत्याख्यानमप्रत्याख्यानं-देशविरतिरूपं तदप्यावृण्वन्तीत्यप्रत्याख्यानावरणाः । प्रत्याख्यान सर्वविरतिरूपमावृण्वन्तीति प्रत्याख्यानावरणाः । 'परीपहोपसर्गादिसंपाते सति चारित्रिणमपि सम-ईषत ज्वलयन्तीति संज्वलनाः ।
| २१६ द्वारे १५८ उत्तरप्रकृतयः गाथा १२५११२७५
द्वितीयः
॥४२५॥
प्र. आ. ३६२
8 चिद्रयमध्यवर्तिपाठः सि.वि. प्रत्योः नास्ति ॥१सातं वि. नास्ति ।। २ तुलना-प्रा. क. २, गा.१०, प.१०६ ३ कषायोदयरहि० मु.॥४०दयोपेक्षक० मु.॥ ५० दयापेक्षक० मु.॥ ६ तुलना-पश्चसङ्ग्रहवृत्ति-दा. ३, गा.५५-११२ B तः ॥
॥४२५॥