________________
१५८
उत्तरप्रकृतयः गाथा १२५१. १२७५
तथा 'द्रा कुत्सायां गतौ' नियतं द्राति-कुत्सितत्वमविस्पष्टत्वं गच्छति चैतन्यमनयेति निद्राप्रवचन
नखच्छोटिकादिमात्रेणैव सुखावयोधा स्वापावस्थेत्यर्थः । कारणे कार्योपचारात् तद्विपाकवेद्या कर्मप्रकृतिरपि' सारोद्धारे।
निद्रेत्युच्यते । तथोपविष्ट ऊर्ध्वस्थितो वा प्रचलति-विचूर्णयत्यस्यां स्वापावस्थायामिति प्रचला । तद्विासटीके
कवेद्या कर्मप्रकृतिरपि प्रचला । तथा निद्रातोऽतिशायिनी निद्रा निद्रानिद्रेति मध्यपदलोपी समासः । द्वितीयः । दुःखप्रबोधा स्वापावस्थेत्यर्थः । तस्यां हि चैतन्यस्यात्यन्तमम्फुटतरीभृतत्वाद्रहभिर्घोलनाप्रकारैः प्रबोधो
भवति । अतः सुखप्रबोधनिद्रातोऽस्या अतिशायिनीत्वम् ; तद्विपाकवेद्या कर्मप्रकृतिरपि निद्रानिद्रा।
तथा प्रचलातोऽतिशायिनी प्रचला प्रचलाप्रचला । सा हि चक्रमणादिकमपि कुर्वतः स्वातुर्भवतीति ॥४२४॥
स्थानस्थितस्वप्तभवां प्रचलामपेक्ष्याम्या तिशायिनीत्वमा
___ तथा स्त्याना-बहुत्वेन संघातमापना गृद्भिः-अभिकाङ्क्षा, जाग्रदवस्थाऽध्यवसितार्थसाधनविषया यस्यां स्वापावस्थायां मा स्न्यानगृद्धिः । तस्यां हि जाग्रदयस्थाऽध्यवसितमर्थमुत्थाय साधयति । स्त्याना वा-पिण्डीभृता ऋद्धिः-आत्मशक्तिरूपाऽस्यामिति स्त्यानद्धिरि त्यप्युच्यते । तद्भावे हि उत्कर्पतः प्रथमसंहननस्य केशवार्धवलसदृशी शक्तिरुपजायते । तथा च प्रवचने श्रूयते-क्वचित्प्रदेशे कोऽपि सुलको विपाकप्राप्तस्त्यानचिनिद्रासहितो द्विरदेन दिवा खलीकृतः । ततस्तस्मिन् द्विरदे बद्धाभिनिवेशो निशि स्त्यानद्धयु दये वर्तमानः समुत्थाय तद्दन्तयुगलमुत्पाट्य स्वोपाश्रयद्वारि व प्रक्षिप्य पुनः प्रसुप्तवान् इत्यादि । तद्विपाकवेद्या कर्मप्रकृतिपि म्त्यानगृद्धिः स्त्यानविर्वोच्यते ।
१०ति-मु. ॥ २ प्त्युच्यते-सि. वि. ॥
॥४२४॥