________________
सारोद्धारे। सटीके द्वितीयः
॥४२३॥
मानानि द्रव्याणि मनासीत्युच्यन्ते, तेषां पर्याया:--'चिन्तनानुगुणाः परिणामास्तेषु ज्ञानं 'मनःपर्यायज्ञानम् , इदं 'चार्धतृतीयद्वीपसमुद्रान्तर्वतिसंज्ञिमनोगतद्रव्यालम्बनम् , तच्च द्वेधा-ऋजुमति विपुलमति च ! २१६द्वारे एतत्स्वरूपं च लब्धिद्वारे वक्ष्यते । तस्यैवं भेदभिन्नस्यावरणस्वभावं कर्म मनःपर्यायज्ञानावरणम् ।
१५८ तथा केवलम् , एकं मत्यादिज्ञाननिरपेक्षत्वात् शुद्धं वा केवलं तदावरणमलकलङ्कविगमात् सकलं
उत्तरवा केवलं प्रथमत एवाशेषतदावरणविगमतः संपूर्णोत्पत्तेः असाधारणं वा केवलमनन्यसदृशत्वात् , अनन्तं
प्रकृतयः वा केवलं ज्ञेयानन्तत्वात् ; केवलं च तद् ज्ञानं च केवलज्ञानम् तस्यावरणं केवलज्ञानावरणम् ।
गाथा अत्र चाद्यानि चत्वायर्यावरणानि देशघातीनि केवलज्ञानावरणोद्धरितज्ञानदेशघातित्वात् । केवल. ११२५१ज्ञानावरणं तु सर्वधाति । एतानि मतिज्ञानावरणादीनि पश्चोत्तरप्रकृतयः । तनिष्पन्नं तु सामान्येन १२७५ ज्ञानावरणं मूलप्रकृतिः । यथाऽङ्गुलीपञ्चकनिष्पन्नो मुष्टिः, घृत-गुड-कणिका दिनिष्पन्नो वा मोदक इत्यादि । एवमग्रेतनेष्वपि भावना कार्या ।
प्र. आ. तथा 'नयनाभ्यां दर्शन-सामान्यावबोधरूपं नयनदर्शनम् , तस्यावरणं नयनदर्शनावरणं चक्षुर्दर्शनावरणमित्यर्थः । इतर:-चक्षुर्वर्जशेषेन्द्रियमनोभिर्दर्शनमितरदर्शनम् । तस्यावरणमितरदर्शनावरणम् , 'अचचुर्दर्शनावरणमित्यर्थः । अवधिरेव दर्शन भवधिदर्शनम् , तस्यावरणमवधिदर्शनावरणम् , केवलमेव दर्शनं केवलदर्शनम् , तस्यावरणं केवलदर्शनावरणम् ।
चिन्तानुगुणा: मु०॥२०पर्ययज्ञानं सि.वि.पो.॥३पाधतृतीयसमुद्रा०मु.॥४.दिमिनिष्पनो मु.॥ ५ तुलना-पनसमवृत्तिः-द्वा-३ गा.४५.११० B तः।। ६ भचक्षदर्शनावरणमित्यर्थः सि.पि.पो.नास्ति।
॥४२३॥ मधिविदर्शनं तस्यावरण सि.वि.प्रत्योः नास्ति।