________________
USSA-255.
(२१६ द्वार
* प्रवचन
सारोद्धार सटीके
द्वितीयः
प्रकृतयः | गाथा १२५१
॥४२२॥
तदेवमर्थावग्रहादीनां चतुर्णा प्रत्येक षविंधत्वाद्वयञ्जनावग्रहभेदचतुष्टयेन सह श्रुतनिश्रितं मतिज्ञानमष्टाविंशतिविधम् , अश्रुतनिश्रितेन चौत्पत्तिक्यादिबुद्धिचतुष्टयेन सह द्वाविंशद्विधं भवति ।
जातिस्मरणमपि समतिक्रान्तसङ्खथातभवावगमस्वरूपं मतिज्ञानभेद एव । तथा चाचाराङ्गटीका"जातिस्मरणं त्वामिनियोधकविशेष" [प. २० A] इति । एतावद्भेदभिन्नस्यास्य एतावद्भेदमेव यदावरणस्वभावं कर्म तन्मतिज्ञानावरणमेकग्रहणेन गृह्यते ।
तथा श्रवणं श्रुतं-वाच्य-वाचकभावपुरस्सरीकारेण शब्दसंसृष्टार्थग्रहणहेतुरुपलब्धिविशेषः । एवमाकारं वस्तु घटशब्दवाच्यं जलधारणाद्यर्थक्रियासमर्थमित्यादिरूपतया प्रधानीकृतसमानपरिणामः शब्दार्थपर्यालोचनानुसारीन्द्रियमनोनिमित्तो ज्ञानविशेष इत्यर्थः । श्रुतं च तद् ज्ञानं च श्रुतज्ञानम् , तद्भेदाश्च नन्दादिभ्योऽवसेयाः । तस्य सभेदस्याप्यावरणस्वभावं कर्म श्रुतज्ञानावरणम् ।। ___तथा अवशब्दोऽधःशब्दार्थः; अव--अधोऽधो विस्तृतं वस्तु धीयते-परिच्छिद्यतेऽनेनेत्यवधिः यद्वाऽवधिः-मर्यादा रूपिश्वेव द्रव्येषु परिच्छेदकतया प्रवृत्तिरूपा तदुपलक्षितं ज्ञानमप्यवधिः, अवधिश्वासौ ज्ञानं च अवधिज्ञानम् , तच्चानन्तद्रव्यभावविषयत्वात्तत्तारतम्यविवक्षयाऽनन्तभेदम् , असङ्ख्येयक्षेत्रकालविषयत्वात्त तत्तारतम्यविवक्षयाऽसङ्ख्येयभेदम् , प्रकारान्तरविवक्षया त्वनुगामिकादिभेदत आवश्यका. दिभ्योऽनुसरणीयम् , तस्यैतावद्भेदभिन्नस्यावरणस्वरूपं कर्म अवधिज्ञानावरणम् । ..' तथा संझिभिर्जीवः काययोगेन मनोवर्गणाभ्यो गृहीतानि मनोयोगेन मनस्त्वेन परिणमय्यालम्ब्य
॥४२२॥