________________
२१६ द्वारे
प्रवचन-- सारोद्धारे सटीके द्वितीयः खण्ड: ॥४२१॥
च यः परस्परं संवन्धः प्रथममुपश्लेषमात्रम् । अपरं च-इन्द्रियेणाप्यर्थस्य व्यङ्ग्यमानत्वादिन्द्रियमपि व्यजनमुच्यते । ततश्च व्यञ्जनेन-इन्द्रियलक्षणेन व्यञ्जनस्य-विषयसंबन्धलक्षणस्यावग्रहणं परिच्छेदनमेकस्य व्यञ्जनशब्दस्य लोगार व्यञ्जनारदः । किगणीदामिनि अव्यक्तज्ञानरूपाक्ग्रहादधोऽव्यक्ततरं ज्ञानमात्रमित्यर्थः । अयं च नयन-मनोवर्जेन्द्रियचतुष्टयभेदाच्चतुर्था । नयन मनसोरप्राप्यकारित्वेन विषयसंबन्धाभावाद् , अस्य चेन्द्रिय-विषययोः संबन्धग्राहकत्वादिति भावः ।
'अर्थ्यत इत्यर्थः, तस्य शब्द-रूपादिभेदानामन्यतरेणापि भेदेनानिर्धारितस्य सामान्यरूपस्यावग्रहणमर्थावग्रहः, किमपीदमित्यव्यक्तज्ञानमित्यर्थः । स च मनःसहितेन्द्रियपश्चकजन्यत्वात् षोढा । अवगृहीतस्यैव वस्तुनोऽपि किमयं भवेत् स्थाणुरेच न तु पुरुष इत्यादि वस्तुधर्मान्वेषणात्मकं ज्ञानचेष्टनमीहा । ईहनं ईहेतिकृत्वा ।
'अरण्यमेतत् सविताऽस्तमागतो, न चाधुना संभवतीह मानवः ।
प्रायस्तदेतेन खगादिभाजा, भाव्यं स्मरारातिसमान नाम्ना ॥१॥ इत्याद्यन्वयधर्मघटन-व्यतिरेकधर्मनिराकरणाभिमुखताऽऽलिङ्गितो ज्ञानविशेष ईहा इति हृदयम् , साऽपि मनासहितेन्द्रियपश्चकजन्यत्वात् पोटैव ।
ईहितस्यैव वस्तुनः स्थाणुरेवायमित्यादिनिश्चयात्मको बोधविशेषोऽवायः । अयमपि पूर्ववत् 'पोढेच । तथा निश्चितस्यैवाविच्युतिस्मृतिवासनारूपं धरणं धारणा । साऽपि पूर्ववत् पोढेव । १ अर्यते भर्थः सि. ॥ २ रतिप्रियतमारि सि. पो. वि. ॥ ३ पोढा-मु.॥
उत्तरप्रतकृयः गाथा १२५११२७५
प्र. आ.
॥४२॥