________________
प्रवचनसारोद्धारे सटीके
|१०३ द्वारे साधुविहार स्वरुपं गाथा
॥२१॥
७७०.
इति भावः, ते पुनरुपशमश्रेण्यौ एकस्मिन् भवे उत्कर्षतो द्वे भवतः । झपकणिः पुनरेवै कस्मिन् भवे भवति । ततोऽयमर्थः-उपशान्तमोहे क्षीणमोहे च मुस्थानके निधन भवति । योपशमश्रेणिचतुष्टये अपकश्रेणौ चैकस्यां कृतायां पञ्चधा भवत्युत्कर्षतः संसारे वसतो जीवस्येति ।।७६६॥१२॥
इदानीं 'साहुषिहारसरूवं' ति व्युत्तरशततमं द्वारमाह
गीयत्यो य विहारो बीओ गोयत्थमीसओ भणिओ । एत्तो तइयविहारो नाणन्नाओ जिणवरेहिं ।७७०॥
[. क. मा. ६८८, व्यवहारभा. उ. २ गा.२०, ओघनि. १२१] दव्दओ चक्खुसा पेहे, 'जुगमित्तं तु खेसओ ।
कालओ जाव रीएज्जा, उवउत्तो य भावओ ॥७७१॥ [उत्तगध्ययनम्. २४७] 'गीयत्थो य' गाहा, गीतो-विज्ञातः कृत्याकृत्यलक्षणोऽर्थो येस्ते गीतार्था-बहुश्रुताः साधवः, तत्सम्बन्धित्वाद्गीतार्थः, चशब्दः समुच्चये भिन्नक्रमश्च, विहारो-विचरणं प्रथम इति गम्यते । द्वितीयश्चअन्यो विहारो गीता मिश्राः-समन्विता येऽगीतार्थास्ते गीतार्थमिश्रास्तेषां सत्को गीतार्थमिश्रः स एव गीतार्थमिश्रको भणितः-उक्तो जिनैविधेयतया । पाठान्तरं गीतार्थनिश्रित इति, तत्र गीतार्थस्य निश्राआश्रयणं गीतार्थनिश्रा सा सञ्जाता अस्येति गीतार्थनिश्रितः । इत:-आभ्यां द्वाभ्यां विहाराभ्यामन्यस्तृतीय एकानेकागीतार्थसाधुरूपो नानुज्ञातो-नानुमतो विधेयतया जिनवरैरिति ॥७७०॥ १ जुगुमेत-ता.॥२ उप -मु.॥
॥२१॥