________________
प्रवचन
सारोद्वारे
सटीके
द्वितीयः
।
।
तेषामेवाहारकपुद्गलाना पूर्वगृहीतानां गृह्यमाणानां च तैजसपुद्गल ह्यमाणः पूर्व गृहीतैश्च सह संबन्ध आहारकतैजसबन्धनम् । तथा तेषामेवाहारकपुद्गलानां पूर्वगृहीताना गृह्यमाणां च कार्यणपुद्गलैग द्यमाणः पूर्वगहीतैश्च सह संबन्ध आहारककार्मणबन्धनम् ; तथा पूर्वगृहीतानामौदारिकपुद्गलानां स्वरेबौदारिकपुदगलैंग ह्यमाणैः सह यः संन्वधः स औदारिकोदारिकबन्धनम् । तेषामेवीदारिकपुद्गलानां 'पूर्वगृहीतानां गह्यमाणानां च तेजसपुद्गलैग ह्यमाणैः पूर्वगृहीतैश्च सह संबन्ध औदारिकतै जसबन्धनम् । तथाते पामेवादारिकपुद्गलानां पूर्वगृहीतानां गृह्यमाणानां च कार्मणपुद्गलैगृह्यमाणैः पूर्वगृहीतैश्च सह संबन्ध औदारिककागबन्धनम् ।
तथा 'इयरसहियाणं तिमित्ति इतराभ्या-तेजस कार्मणाम्यां द्वाभ्यां समुदिताम्यां सहिताना वैक्रियाऽऽ हारकोदारिकाणां त्रीणि बन्धनानि भवन्ति । तद्यथा-वैक्रियतैजसकार्मणबन्धनम् , आहारकतैजसकार्मणबन्धनम् , औदारिकतैजसकामणबन्धनं च । तत्र वैक्रियपुद्गलानां तैजसपुद्गलानां कार्मणपुद्गलानां च पूर्वगृहीतानां गृह्यमाणानां वा यः परस्परं संबन्धस्तद्वैक्रियतैजसकार्मणबन्धनम् , एवमाहारकतैजसकार्मणबन्धनौदारिकतेजसकामेणबन्धनयोरपि भावनाऽनुसतव्या । अनेन च 'बन्धनत्रिकेण सह पूर्वोक्तानि नव बन्धनानि द्वादश भवन्ति ।
तथा 'तेसिंच' ति तयोश्च-तैजस-कार्मणयोः 'स्वस्थाने परस्परं च बन्धनचिन्तायां त्रीणि बन्धनानि भवन्ति । तद्यथा--तैजसतैजसबन्धनम् , तैजसकार्मणवन्धनम् , कार्मणकार्मणबन्धनं चेति । तत्र तेजस
१ पूर्व मु.नास्ति ॥२ कार्मणपुद्ग.सि. वि ॥ ३ कार्मणबन्धन-पो. । कम्मेणबन्धन.सि. ॥ ४ स्वस्थाने च प.वि.पो.।।५ष-मु. नास्ति ।
द्वारे उत्तरप्रकृतयः | गाथा १२५११२७५
प्र.आ.
॥१९॥