________________
H
E ROINTERNETSMASupport Farmire.
२१६वारे
उत्तर
प्रकृतयः माथा १२५१
गतिर्द्विधा-शुभा-ऽशुभविहायोगतिभेदात् । प्रसादिविंशतिः-बस-स्थावरादिका यश कीर्ति-अयशःकीर्तिप्रवचन- पर्यन्ता, निर्माणं च। सारोद्धारे। एताः प्रकृतयस्तीर्थंकरनाम्ना सहिताः सप्तपष्टिर्भवन्ति । एता एव च बन्धसुदयं चाश्रित्य नामकर्मण सटिके उत्तरप्रकतयः परिगृह्यन्ते । शेषाणां च कर्मणां सम्यक्त्वमिश्रेविना त्रिपञ्चाशत् । बन्धचिन्तायां हि दर्शन
मोहनीयोत्तरप्रकृती सम्यक्त्व-मिश्रे न गृहयेते; तयोर्बन्धासंभवात् । मिथ्यात्वपुद्गला एव हि तथाविधद्वितीयः
विशोधिवशात सम्यक्त्वरूपतया मिश्ररूपतया च परिणमन्तीति । एवं च सप्तपटेर्नामकर्मभेदानां ।
शतश्च शेषकर्मभेदाना मीलने बन्धे विंशत्युत्तरं प्रकृत्तीनां शतं भवति ज्ञातव्यम् । ॥४१७॥ ननु पूर्वोक्तद्विचत्वारिंशदुत्तरप्रकृतिमध्ये ये बन्धन-संघातनाम्नी प्रतिपादिते ते सप्तपष्टिमध्ये
कथं न गण्येते ? इत्याह-'बंधणे'त्यादि, बन्धन-संघातौ शरीरग्रहणेन शरीरनामकर्मान्तर्भूतत्वेनेहसप्तपष्टिभेदचिन्तायां गृहीताविति पृथग्न विवक्षितौ । तथा सत्तायां चिन्त्यमानायां नामकर्मप्रकृतयस्त्रिनवतिसङ्ख्या 'मतान्तरेण पुत्तरशतसङ्ख्याश्वाधिक्रियन्ते ॥६७-७१॥
ततः क्रमेणत्रिनवतिं युत्तरशतं चाह-पंधणे त्यादिगाथाचतुष्कम् , औदारिक-बै क्रिया-ऽऽहारकतेजस-कार्मणबन्धनभेदान्धननाम पञ्चधा । संघातनामापि औदारिक-वै क्रिया-ऽऽहारक-तैजस-कार्मणसंघातभेदात् पश्चधा। एवमेता दश । तथा वर्णनाम कृष्ण-नील-लोहित-हारिद्र-सितभेदात् पञ्चधा । गन्धनाम सुरभि-दुरभिगन्धमेदाद् द्विधा । रसनाम तिक्त कटु-कषाया-ऽम्ल-मधुरभेदात् पश्चधा । स्पर्शनाम कर्कश१मन्तरेण- वि. पो. ।। २ तिक्तकदुककषाया० पि. ।
॥४१७॥