________________
प्रबचन
सारोद्वारे सटीके
द्वितीय
॥४१५॥
↑
अन्तरायं तु पुनः पञ्चविधम् तद्यथा-दानान्तरायम्, लाभान्तरायम् भोगान्तरायम्, परिभोगान्तरायम्, वीर्यान्तरायं च । एतां भेदान् सुखावबोधार्थमर्थकथनद्वारेणैव सूत्रकृनिर्दिशति-य -यस्यान्तरायस्य प्रभावतो दातु न लभते जीवस्तद्दानान्तरायम् । एवं यत्प्रभावतो जीवस्य लाभो न भवति तल्लाभान्तरायम् । यत्प्रभावतो भोगान् परिभोगांश्च न प्राप्नोति तत्क्रमेण भोगान्तरायं परिभोगान्तरायं च । प्रभावतच नीरुजोsपि - नीरोगोऽपि जीवोऽशक्तः - असमर्थो भवति तद्वीर्यान्तरायम् ।
1
,
इयमत्र भावना - " यदुदयवशात् सति विभवे समागते च गुणवति पात्रे दत्तमस्मै महाफलमिति जानमपि दातु' नोत्सहते तद्दानान्तरायम् । तथा यदुदयवशाद्दानगुणेन प्रसिद्धादपि दातुगृ है विद्यमानमपि देयमर्थजातं याचाकुशलोऽपि गुणवानपि याचको न लभते तल्लाभान्तरायम् । तथा यदुदयवशात् सत्यामपि विशिष्टाहारादिप्राप्तावसति च प्रत्याख्यानपरिणामे वैराग्ये वा केवलं कार्पण्यानोत्सहते भोक्तु तद्भोगान्तरायम् । एवं परिभोगान्तरायमपि भावनीयम् । नवरं भोगपरिभोगयोश्यं विशेष:सकृद्भुज्यते इति भोगः - आहारमान्यादिः पुनः पुनः परिभुज्यते इति परिभोगो-भवनवनितादिः । तथा यदुदयवशात्सत्यपि नीरुजि शरीरे यौवनिकायामपि वर्तमानोऽल्पप्राणो भवति, यद्वा बलवत्यपि शरीरे साध्येsपि प्रयोजने streन्यतया न प्रवर्तते तद्वीर्यान्तरायमिति । तथा विवक्षान्तरतः कारणान्तरतव नामकर्म नानाप्रकारम्, तद्यथा-द्विचत्वारिंशद्भेदम्, सप्तषष्टिभेदम्, त्रिनवतिभेदम्, त्र्युत्तरशतभेदं च ॥५६-६२॥
१ तुलना - पञ्चसम्म वृत्तिः- द्वा०३, गा. ३, प. १०९ 4 तः ॥
२१६ द्वारे
१५८
प्रकृतयः
गाथा
१२५१
१२७५
प्र. आ. ३५८
॥ ४१५।।