________________
प्रवचन
सारोद्वारे
सटीके
द्वितीय:
解释:
॥४१३॥
तत्र यथास्वं तानेव मेदान् क्रमेण नामग्राहमाह - 'मई'त्यादिगाथास्त्रयोविंशतिः तत्र मतिश्रुताऽवधि - मनः पर्यव - केवलानि जीवस्यात्रियन्ते - आच्छाद्यन्ते यत्प्रभावतस्तद् ज्ञानावरणं भवेत्कर्म । किमुक्तं भवति १ - ज्ञानावरणं पञ्चप्रकारम्, तद्यथा - मतिज्ञानावरणम् श्रुतज्ञानावरणम् अवधिज्ञानावरणम्, मनःपर्यवज्ञानावरणम्, केवलज्ञानावरणं चेति ।। ५३ ।।
,
तथा 'दर्शनावरणं बन्धे उदये सत्तायां च त्रिधा प्राप्यते । तद्यथा - कदाचिच्चतुर्धा, कदाचित् योढा, कदाचिच्च वा । तत्र कथं चतुर्धा ? कथं पोढा, कथं वा नवयेति त्रीनपि प्रकारान दर्शयन प्रथमतवतुर्धा दर्शयति- दर्शनावरणं चतुर्धा - चतुष्प्रकारं भवति । कथमित्याह- नयनेतराऽवधिकेवलेषुनयनेतरा ऽवधिकेवलविषयं तत् सूत्रे तु सप्तम्या अदर्शनं लोपाद, लोपश्च प्राकृतत्वात् । एप चात्र भावार्थ:- दर्शनावरणं यदा चतुर्धा बन्धे उदये सत्तायां वा विवक्ष्यते तदेवंरूपं तदवगन्तव्यम्, यथा नयनदर्शनावरणमितरदर्शनावरण मचक्षुर्दर्शनावरणमित्यर्थः, अवधिदर्शनावरणम्, केवलदर्शनावरणं चेति । तदेव दर्शनावरण चतुष्कं निद्रा प्रचलाभ्यां सह पोढा भवति । दर्शनावरणषट्कग्रहणे च सर्वत्रापीदमेव दर्शनावरणषट्कं ग्राह्यम्, एतदेव दर्शनावरणपटुकं निद्रादिद्विरुक्तप्रकृतिस्त्यानधिभिः सहितं नवधा द्रष्टव्यमिति शेषः । सूत्रे च विभक्तिलोप आपत्वात् । निद्रादीनि निद्रा प्रचलाasat road वाचकत्वेन ययोस्ते निद्रादिद्विरुक्ते निद्रानिद्रा प्रचलाप्रचला चेत्यर्थः । एतदिह शास्त्रे नवविधं दर्शनावरणमुक्तम् । एतच्च जीवे - जीवस्य दर्शनं - सामान्योपयोगरूपमावृणोति आच्छादयति, केवलं निद्रापञ्चकं प्राप्ताया दर्शनलब्धेरुपघातकृत् दर्शनावरणचतुष्टयं तु मूलत एवं दर्शनलब्धिमुपहन्ति । आह च गन्धहस्ती१ तुलना पञ्चसम्प्रवृत्तिः - द्वा०३ मा ४ प. ११० तः ॥ २ चतुष्टयं मु. ॥ ३ सह- मु. नास्ति ||
२१६ द्वारे
१५८
उत्तर
प्रकृतयः
गाथा
१२५१
१२७५
प्र. आ. ३५७
॥४१३॥