________________
प्रवचन
सारोद्धारे
सटीके
द्वितीय:
खण्ड:
||४०८||
बोधः, आवियते - आच्छाद्यतेऽनेनेत्यावरण- मिध्यात्वादिसचिव जीवव्यापारहृतकर्मवर्गणान्तःपाती विशिष्ट - पुद्गलसमूहः ज्ञानस्य-मत्यादेरावरणम्- ज्ञानावरणम् ।
तथा दृश्यतेऽनेनेति दर्शनं - सामान्यविशेषात्मके वस्तुनि सामान्यग्रहणात्मको बोधः, तस्यावरणं दर्शनावरणम् २ |*
तथा वेद्यते - आह्रादादिरूपेणानुभूयते यत्तद्वेदनीयम्, यद्यपि सर्व कर्म वेद्यते तथापि 'पङ्कजादिशब्दवद्वेदनीयशब्दस्य रूढिविषयत्वात् साता-सातमेव कर्म वेदनीयमित्युच्यते, न शेषम् ३ ।
तथा मोहयति - सदसद्विवेकविकलं करोत्यात्मानमिति मोहनीयम् ४ ।
तथा एति - आगच्छति प्रतिबन्धकर्ता स्वकृतकर्मावाप्तनरकादिकुगतेर्निष्क्रमितुमनसो जन्तोरित्यायुः, अथवा आसमन्तादेति - गच्छति भवाद्भवान्तरसंक्रान्तौ जन्तूनां विपाकोदयमित्यायुः ५ ।
तथा ग्रूयते - शब्द्यते उच्चावचैः शब्दैर्यत्तद् गोत्रम् - उच्च-नीच कुलोत्पत्तिलक्षणः पर्यायविशेषः afaredi कर्मापि गोत्रम्, कारणे कार्योपचारात् ६ ।
तथा अन्तरा - दातृ प्रतिग्राहकयोरन्तर्विघ्नहेतुतया अयते गच्छतीत्यन्तरायम्, यज्जीवस्य दानादिकं तु न ददातीत्यर्थः ७ ।
१.
जादिशब्दवद्वेदनीयस्य शब्दस्थ वि. ॥ इतोऽयं यतः पडिणीयप्राणनिन्दर उबधाय पमोस अंतरायण। अध्यासायणयाए भावरणदुगं जिभो जणई' इति सि. प्रतावधिका गाथा ॥
२१५द्वारे
कर्मणो मूलमेदाः
गाथा
१२४९
१२५०
प्र. आ.
३५६
||४०८||