________________
प्रवचन
सारोद्धारे।
सटीके
| २१३ द्वान नवनिधिस्वरूपम् गाथा १२१८१२३१
द्वितीयः
॥३९६॥
सर्वेषामपि वस्त्राणां या उत्पत्तिः, तथा सर्वेषामपि वस्त्रादिगतानां मक्तिविशेषाणां सर्वेषामपि च | रक्षाणां-'मञ्जिष्ठा-कृमिराग-कुसुम्मादीनाम् , धातूनां च-लोह-ताम्रादीनाम् , 'धोन्वाण य' ति पाटे तु सर्वेषां वस्त्रादिप्रक्षालनविधीना या निष्पत्तिः, सर्वा चैषा महापी निधावभिधीयते ॥२३॥
काले-कालनामनि निधी कालज्ञान-समस्तज्योतिः शास्त्रानुगतं ज्ञानमितिभावः। ___ तथा जगति त्रयो वंशाः, वंश: प्रवाह आवलिकेत्यनान्तरम्, तद्यथा-तीर्थकरवंशश्चक्रवर्तिवंशो बलदेववासुदेववंशश्व, तेषु विष्वपि वंशेषु यद्भाव्यं-भावि यच्च पुराणम्-अतीतम् , उपलक्षणमेतत् वर्तमानं च । 'तिमुवि वासेसुतिपाठे तु अनागतवस्तुविषयमतीतवस्तुविषयं च कालज्ञानं क्रमेणानागतातीतवर्षत्रयगोचरमिति । क्वचिद् 'भव्वपुराणं च तिसुवि कालेसु'त्ति पाठः, तत्र च विष्वपि कालेपु-वर्तमानात नागलेषु भयं- शुभम्, पुर.णं च-अशुभं कालज्ञानमिति ।
तथा 'यन् शिल्पशतं-घट-लोह चित्र-वस्त्र-नापितशिल्पानां पश्चानामपि प्रत्येक विंशतिभेदत्वात् यानि च कृषिवाणिज्यादीनि जवन्यमध्यमोत्कृष्टभेदमिन्नानि त्रीणि कर्माणि प्रजाया हितकराणि तदेतसर्वमभिधीयते ॥२४॥
महाकाले निधी लोहस्य नानाभेदभिन्नस्योत्पत्तिराख्यायते, रूप्यसुवर्णमणिमुक्ताशिलाप्रबालानां संबन्धिनामाकराणां च । तत्र रूप-सुवर्णे प्रतीते, मणयः-चन्द्रकान्तादयः, मुक्ता-मौक्तिकानि, शिलाःस्फाटिकादिका, प्रबालानि-विद्रुमाणीति ॥२५॥ १ मजिष्ठा मु.॥ २ शास्त्रानुबन्धिगत जे. सि. वि. ॥ ३ यद्भव्य • मु. ॥ ४ तत्-सि.। यतः-॥
प्र. आ.
Bibe
ALSO