SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ प्रवचनसारोद्धारे सटीके १०१ द्वारे चक्रवालसमाचारी गाथा ७६० ॥१७॥ वा तेन प्रयोजनमिति । द्वारम् । तथा पूर्वगृहीतेनाशनादिना छन्दना शेषसाघुभ्यः कर्तव्या, यथा मयेदमशनाद्यानीतं यदि कस्यचिदुपयुज्यते ततोऽमाविच्छा कारण ग्रहणं करोत्विति । द्वारम् ८ । तथा निमन्त्रणा भवत्यगृहीतेनाशनादिना, यथाऽहं भवतां योग्यमशनाद्यानयामीति । द्वारम् ॥७६६॥ इदानीमुपसम्पद्वारमाह-'उपसंपया य' गाहा, उपसम्पदनमपसम्पत्-कस्माश्चिदप्यपरगुरुकुलादपरस्य विशिष्टश्रुतादियुक्तस्य गुरोः समीयागमन मिति । सा च 'विधा-ज्ञाने ज्ञानविषया एवं दर्शनविषया चारित्रविपया च । तत्र ज्ञान-दर्शनयोः सम्बन्धिनी त्रिधा भवति-वर्तना सन्धना ग्रहणं च । एतदर्थं हि उपसम्पद्यते इति । तत्र वर्तना पूर्वगृहीतस्यैयास्थिरस्य सूत्रादेगुणमिति । सन्धना च-तम्यैव सूत्रादेः प्रदेशान्तरे विस्मृतस्य मीलना घटना योजनेत्यर्थः । ग्रहणं पुनस्तस्यैव तत्प्रथमतया आदानम् । एतत् त्रितयमपि सूत्रार्थतदुभयविषयमवगन्तव्यम् , एवं ज्ञाने नव भेदाः । तथा दर्शनेऽपि दर्शनप्रभावकसंमत्यादिशास्त्रविषये एत एव भेदा विजेया इति । तथा चास्त्रिविषया द्विधा सम्पन्चे यावृत्त्यविषया क्षपणविषया च अयमाशयः चारित्रार्थमन्यगच्छमत्काचार्याय कश्चिद्वैयावृत्यकरत्वं प्रतिपद्यते । स च कालतः कश्विदित्वरकालम् , कश्चिच्च यावज्जीवमिति । अत्राह पर:-ननु "किमत्रोपसम्पदा कार्यम् ?, स्वगच्छ एवायं चारित्रार्थ किमिति वैयावृत्यं न १.तुलना-आवश्यकहारिमद्रीया वृत्तिः (प. २६७ B तः) आव. मलय. वृत्तिः ५.३५० BIH २ घटना-मुः । आव हारिभद्रयामपि (५.२६७ ॥) भाव. मलय. वृत्तौ (३५० B ) अपि घटना इति पाठः ॥ ३ तुलना-भाव. हारिभद्रीयावृत्तिः प. २७०Bi आव.मलयावृत्तिः प. ३५४ ॥ प्र.आ. २२२ ॥१७॥ DoAAA AAAMAN
SR No.090383
Book TitlePravachansaroddhar Part 2
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherZZZ Unknown
Publication Year
Total Pages740
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy