________________
प्रवचनसारोद्धारे सटीके
किमित्याह–'अविकल्पेन' निर्विकल्पं तदीयवचने वितथत्वाशङ्कामकुर्वाणेनेत्यर्थः तथाकारः । कार्य
|१०१द्वा इत्यध्याहारः । कोऽभिप्रायः ?-एवंविधस्य गुरोर्वाचनादानादौ पृच्छनानन्तरमुत्तरदाने तथा सामाचारी
चक्रवालशिक्षणादौ च यथा यूयं वदथ तथैवै तदित्यर्थसंसूचकस्तथाशब्दः प्रयोक्तव्यः ३ ॥७६४।।
समाचारी ___इदानीमावश्यिकी-नेपेधिकीद्वारद्वयमाह-'आवस्सिया गाहा, 'आवश्यिकी विधेया वसते
| गाथा निर्गच्छता साधुना अवश्यं गन्तव्ये ज्ञानादिवरादेत ते भिक्षाटनादौ कारणे सति, अनेन निष्कारणगमननिषेध उक्तः ४ । तथा बहिर्देशानिवृत्तेन तस्मिन् स्थाने नैपेधिकी विधेया यत्र शय्यास्थानायाचरति । तत्र शय्या-वसतिस्तस्यां स्थानम्-अवस्थानं तच्च प्रस्तावात्प्रवेशलक्षणम् आदिशब्दाच्चैत्यप्रवेशादि परिग्रहः, बहिर्देशाद्वसत्यादौ प्रविशन नैवेधिकी विदध्यादिति भावः ५ ॥७६५।।
२२२ साम्प्रतमापृच्छादिद्वारचतुष्टयमेकगाथया प्राह-'आपुच्छणा' गाहा, आपृच्छनमापृच्छा सा च कतुमभीष्टे कार्ये प्रवर्तमानेन गुरोः कार्या-भगवन् ! अहमिदं करोमीति । द्वारम् ६ । तथा पूर्वनिषिद्धेन सता यथा त्वयेदं न कर्तव्यमिति । उत्पन्ने च प्रयोजने कतु कामेन होइ पडिपुच्छ' त्ति भवति प्रतिपृच्छा पूज्यरिदं निषिद्ध मासीत् इदानीं तेन कार्येण प्रयोजनं यदि पूज्या आदिशन्ति तदा करोमीत्येवंरूपा । पाठान्तरं वा 'पुवनिउत्तेण होइ पडिपुग्छ' त्ति पूर्व नियुक्तेन सता यथा भवतेदं कार्यमिति तत्कतु कामेन गुरोः प्रतिपच्छा भवति कर्तव्या, अहं तस्करोमीति । तत्र हि गुरुः कदाचित्कार्यान्तरमादिशति समाप्त
-rrrieromr- train
.
१ मावश्यकी-मु.॥२ तुलना आवश्यक हारिमद्रीया वृत्तिः (प. २६५), माल. मलय. वृत्तिः प. ३५० ॥ .