SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ प्रवचन सारोद्धारे सटीके ॥१५॥ अथ कस्मादिच्छाकारप्रयोगः क्रियते ?, उच्यते बलाभियोगो मा भूदिति हेतोः । तथा चाह-यतो न कल्पते बलाभियोगः साधनाम्, तत इच्छाकारप्रयोगः कर्तव्यः । तुशब्दः काचिद्बलाभियोगोऽपि कल्पते इति सूचनार्थः १ ॥७६२॥ सम्प्रति मिथ्याकारविषयप्रतिपादनार्थमाह- संजमजोर' गाहा, 'संयमयोगः -समितिगुप्तिरूपः तस्मिन् विषयेयुत्थितस्य सतो यत्किञ्चिद्वितथम् अन्यथाऽऽचरितम् - आसेवितं भूतमिति शेषः, मिथ्या विपरीतमेतदिति विज्ञाय किं १- मिथ्येति कर्तव्यं तद्विषये मिथ्यादुष्कृतं दातव्यमित्यर्थः, संयमयोगविषयायां च प्रवृत्तों वितथासेवने मिथ्यादुष्कृतं दोषापनयनाय समर्थम्, न तूपेत्यकरणविषयायां नाप्यसकृत्करणगोचरायामिति २ ॥ ७६३॥ 1 इदानीं तथाकारी यस्य दीयते तत्प्रतिपिपादयिपुराह - 'कप्पाकप्पे' गाहा, कल्पो विधिराचार इति पर्यायाः, कल्पविपरीतस्त्वकल्पः, जिनस्थविरकल्पादिर्वा कल्पः, चरकसुगतादिदीक्षा पुनरकल्प इति । कल्पश्वाकल्पश्च कल्पा कल्पमित्येकवद्भावः तस्मिन् परि-समन्ताभिष्टितः परिनिष्ठितो ज्ञाननिष्ठां प्राप्तस्तस्य । अनेन च ज्ञानसम्पदुक्ता । तथा तिष्ठन्ति मुमुज़वो येषु तानि स्थानानि - महाव्रतानि, तेषु पञ्चसु - पश्चसख्येषु स्थितस्य- आश्रितस्य अनेन च मूलगुणसम्पत्तिरुक्ता । तथा संयमः प्रत्युपेचोत्प्रेक्षादिः, तपश्च- अनशनादि, ताभ्यामाध्यस्य-सम्पन्नस्येत्यनेनोत्तरगुण युक्ततामाह । तस्य, ॥ १ तुलना - आव हारिभद्रीयवृत्तिः (प. २६३ 13 ) आव मलय वृत्ति: प. ३४६ २ तुलना - आष. हारिभद्रया वृत्तिः प. २६४ छ, भाव. मलय. वृत्तिः प. ३४७०, पलाशवृत्तिः प. १९८ ॥ १०१६ चक्रवाल समाचार गाथा ७६० ७६७ प्र. आ. २२२ ॥१५॥
SR No.090383
Book TitlePravachansaroddhar Part 2
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherZZZ Unknown
Publication Year
Total Pages740
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy