SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ प्रवचनसारोद्वारे सटीक ।।१४।। क्रियमिति । तथाकरणं तथाकारः, स च सूत्रप्रश्नादिगोचरो यथा भवद्भिरुक्तं तथैवेदमित्येवं स्वरूपः ३ । तथा अवश्यम् - अवश्यशब्दोऽकारान्तोऽप्यस्ति ततोऽवश्यस्य - अवश्यं कर्तव्यस्य क्रिया आवश्यकी, चः समुच्चये ४ | तथा निषेधेन - असंतगात्रानिवारणेन निर्वृता तत्प्रयोजना वा या शय्यादिप्रवेशनकिया साधक ५ तथा आच्छनमाच्छा, सा विहारभूमिगमनादिषु प्रयोजनेषु गुगेः करणीया, चः पूर्ववत् ६ तथा प्रतिछा-प्रतिप्रश्नः सा च प्राग्नियुक्तेनापि करणकाले कार्या निविदेन वा प्रयोजनतः तुकामेनेति । तथा छन्दना - पूर्वगृहीतेनाशनादिना आमन्त्रणा विधेया । तथा निमन्त्रणा अगृहीतेनैवाशनादिना अहं HEदर्थमशनाद्यानयामीत्येवंरूपा । तथोपपच्च विधिना देया, इयं कालेकालविषये सामाचारी भवेद् दशविधा । एवं तावत्समासत उक्ता, सम्प्रति प्रपञ्चतः प्रतिपदमभिधित्सुरिदमाह-एतेषां पदानां तुविशेषणे विपयप्रदर्शनेन प्रत्येकं पृथकरूपणां वक्ष्ये कथयामि ॥७६०-७६१ ॥ छारो पर्थेषु क्रियते तत्प्रदर्शनार्थमाह-जईत्यादि यदीत्यभ्युपगमे अन्यथा साधनामकारणे अभ्यर्थनैव न कल्पते । ततथ यदि अभ्यर्थयेत्परम् - अन्यं साधु ग्लानादौ कारणजाते समुत्पन्ने सति, ततस्तेनाभ्यर्थयमानेन इच्छाकारः प्रयोक्तव्यः । यदिवा अनभ्यर्थितोऽपि कोऽप्यन्यः साधुः 'से' ति तस्य कर्तुकामस्य कस्यचित्साधोः कारणजाते कुर्यात्, तत्रापि तेनानभ्यर्थितेन साधुना तस्य चिकीर्षितं तुकामेन इच्छाकारः प्रयोक्तव्यः । इह विरलाः केचिदनभ्यर्थिता एव परकार्यकर्तार इति कोऽपीतिग्रहणम् । १ तुलना पचाशक वृत्तिः ५. १९४ ।। २ विधिनाऽऽदेवा इति भव. हारिभद्रां पाठः ॥ ३ एवं काले-इति भावः हारिमद्रयाम् भव मलयः वृत्तौ च पाठः ॥ १०१ द्वारे चक्रवाल समाचारी गाथा ७६० ७६७ प्र. आ. २२१ ॥१४॥
SR No.090383
Book TitlePravachansaroddhar Part 2
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherZZZ Unknown
Publication Year
Total Pages740
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy