SearchBrowseAboutContactDonate
Page Preview
Page 408
Loading...
Download File
Download File
Page Text
________________ २०६ द्वार प्रवचन सारोद्धारे सटीके द्वितीयः खण्ड: पाखण्डिन गाथा ११८८. १२०६ ||३८४|| प्र. आ. न च तेन ज्ञातेनापि किञ्चित्कलमस्ति । तथाहि-यदि नित्यः सर्वगतोऽमृतॊ ज्ञानादिगुणोपेत एतद्गुणव्यतिरिक्तो वाऽऽत्मा ततः कतमस्य पुरुषार्थस्य सिद्धिरिति । तस्मादज्ञानमेव श्रेयः।। एवं शेषैरप्यसदादिभिः षड्भिः 'पदैर्भङ्गा भवन्ति । असन् जीवः को वेत्ति ? किं वा तेन ज्ञातेनेत्यादि । इति जाता जीवपदस्य सप्त भङ्गाः । एवमजीवादीनामप्यष्टानां पदानां प्रत्येकं सप्त सप्त भङ्गा भवन्ति, सर्वेऽपि मिलितास्त्रिषष्टिः, तथा अन्येऽपि-अमी वक्ष्यमाणाः हुशब्दस्यावधारणार्थत्वाच्चत्वार एव मङ्गा इह-अज्ञानिकप्ररूपणप्रक्रमे भवन्ति ।। १ ॥२॥ तानेवाह-'संती' त्यादिगाथाद्वयम् , सती भावोत्पत्तिः को जानाति १, किंवाऽनया ज्ञातया ११ । एवमसतो भावोत्पत्तिः को वात, कि वाऽनया ज्ञातया ? २ । सदसती मावोत्पत्तिः को वेत्ति ?, किं वाऽनया ज्ञातया १३ । अवक्तव्या भावोत्पत्तिः को वेत्ति , किं वाऽनया ज्ञातया १४। एतेषां च भङ्गानामयं तात्पर्यार्थः-इह पदार्थस्योत्पत्तिः किं सतोऽसतः सदसतोऽवाच्यस्य वेति को जानाति ?, ज्ञातेन वा न किञ्चिदपि प्रयोजनमिति । शेषविकल्पवयं तु उत्पच्युत्तरकालं पदार्थावयवापेक्षमतोऽत्र न संभवतीति नोक्तम् । एतैश्चतुर्भिङ्गैर्मिलितैः त्रिषष्टिमध्ये प्रक्षिप्तैर्जाता 'एषा सप्तपष्टिरज्ञानिकानामिति ॥३॥४॥ इदानी वैनयिकानां द्वात्रिंशभेदानाह–'सुरे' त्यादिगाथाद्वयम् , सुरा-देवाः, नृपतयोराजानः, यतयो-मुनयः, ज्ञातयः-स्वजनाः, स्थविरा-वृद्धाः, अवमा- 'अनुकम्पनीयाः कार्पटिकादयः, १ पदेर्जीवमला-मु, ॥ २ एषा मङ्गकानां सप्त० मु. ॥ ३ भवक० खं ।। ॥३८४॥ RE
SR No.090383
Book TitlePravachansaroddhar Part 2
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherZZZ Unknown
Publication Year
Total Pages740
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy