________________
प्रवचनसारोद्वारे
सटीके
द्वितीय
खण्ड:
1136411
मातापितरौ प्रतीती, एतेषामष्टानां प्रत्येकं मनो वचन काय दानैश्चतुर्विधो विनयः क्रियते । तद्यथासुराणां विनयं करोति मनसा तथा वाचा तथा काये तथा देशकालोदानेन इत्यादि । एते च विनयादेव केवलत्स्वर्गापवर्गमभ्युपगच्छन्ति । विनयश्च नीचैव स्यनुत्सेकलक्षणः । सर्वत्र चैवंविधेन विनयेन देवादिषूपतिष्ठन् स्वर्गापव भाग्भवतीति । तदेवमेतेऽष्टावपि 'भङ्गा चतुष्केण गुणिता द्वात्रिंशद्वैनयिकभेदा भवन्तीति ।
सर्वैरप्येतैः पूर्वोक्तैः क्रियाऽक्रियाऽज्ञानवैनयिकवादिभेदे : पिण्डितैः- एकीकृत स्त्रीणि त्रिपयधिकानि पाखण्डिनां शतानि भवन्तीति । एतेषां च प्रतिक्षेपः 'सूत्रकृताङ्गादिभ्यः समवसेयः ॥ ५-६ || २०६ || सम्प्रति "अट्टहा पमाय' चि सप्तोत्तरद्विशततमं द्वारमाह
पमाओ य मुणिदेहि. भणिओ अनुभेयओ I अन्नाणं १ संसओ २ चैव मिच्छानाणं ३ तहेव य ॥७॥ रागो ४ दोसो ५ महन्मंसो ६, धम्मंमि य अणायरी ७ । जोगाणं दुष्पणिहाणं 6, अट्ठहा वज्जियव्वओ
||८||
प्रमाद्यति - मोक्षमार्ग प्रति शिथिलोद्यमो भवत्यनेन प्राणीति प्रमादः । स च मुनीन्द्रः--तीर्थकुद्धिभणित: प्रतिपादितो भवति, अष्टभेद:- अष्टप्रकारः । तद्यथा - अज्ञानं मूढता, संशय: - किमेतदेव स्यादुतान्यथेति संदेहः, मिथ्याज्ञानं विपर्यस्ता प्रतिपत्तिः, रागः -- अभिष्वङ्गः, द्वेषः -- अप्रीतिः, स्मृतिभ्रंशो११] भङ्गा-जे, नास्ति ।। २सूत्रकृताङ्गसूत्रवृतिः अभ्य. १२.प. २११तः, नन्दी सूत्र मलय. वृत्तिः २१८तः द्रष्टव्या ।। ३अट्टय - वि. पो. ॥
२०७द्वार
८ प्रमाद
मेदाः
गाथा
१२०७८
प्र. आ. ३४८
||३८५ ॥