________________
प्रवचनसारोद्धारे सटीके
द्वितीयः खण्डः
११८८
॥३८॥
इह यदृच्छावादिनः सर्ने क्रियावादिन एन । ल केचिदपि क्रियावादिनः । ततः प्राग्यदृच्छा नोफ्न्यस्ता ||९४॥१५॥
२०६ द्व अथ विकल्पाभिलापमाह-'पढमे' त्यादिगाथात्रयम् , नास्ति जीवः स्वतः कालत इति प्रथमो ३६३ भङ्गः । तदनु नास्ति जीवः परतः कालत इति द्वितीयो भङ्गः । एतौ द्वौ च मङ्गौ कालेन लब्धौ । एवं पाखण्डि यदृच्छादिभिरपि पञ्चभिः पदैः प्रत्येकं द्वौ द्वौ विकल्पौ प्राप्येते । सर्वेऽपि मिलिता द्वादश । अमीषां च गाथा विकल्पानामर्थः प्राग्वद्भावनीयः । 'नवरं यदृच्छात इति-यदृच्छावादिना मते ।
___ अथ के ते यदृच्छावादिनः१, उच्यते, इह ये भावानां सन्तानापेक्षया न प्रतिनियतं कार्यकारणभावमिच्छन्ति किंतु यदृच्छया ते यदृच्छाचादिनः । तथा च त एवमाहुः न खलु प्रतिनियतो वस्तूनां कार्यकारणभावः, तथाप्रमाणेनाग्रहणात् । तथाहि-शालूकादपि शालूको जायते गोमयादपि, अग्नेरप्यग्नि
प्र. आ. र्जायते अरणिकाष्ठादपि । 'धृमादपि धूमोऽग्नीन्धनसंपर्कादपि । कन्दादपि जायते कदली बीजादपि, वटादयोऽपि वीजादुपजायन्ते शाखैकदेशादपि । ततो न प्रतिनियतः क्वचिदपि कार्यकारणभाव इति यदृच्छातः क्वचिदपि किंचिद्भवतीति प्रतिपत्तव्यम् । न खल्वन्यथा वस्तुसद्भावं पश्यन्तोऽन्यथाऽऽत्मानं प्रेक्षावन्तः "परिक्लेशयन्तीति । एते च द्वादश विकल्पा जीवतत्वेन-जीवपदेन संप्राप्ता-लब्धाः । एवमजीवादिभिरपि षभिः पदैः प्रत्येकं द्वादश द्वादश विकल्पाः प्राप्ताः । ततो द्वादशभिः सप्त गुणिता जाताश्चतुरशीतिः । सर्वसङ्ख्यया चाक्रियावादिनामेते मेदा भवन्तीति ॥९६॥९॥९८||
| ॥३८॥ १ तुला-नन्दीसूत्र मलय. वृत्तिः २१५4 ॥ २ एत-मु. ॥ ३ जायते धूमावपि-मु. ॥ ४ परिक्लेशयन्ति-मु.॥
३४७