SearchBrowseAboutContactDonate
Page Preview
Page 403
Loading...
Download File
Download File
Page Text
________________ चचन नासेद्वारे बटीके द्वितीय: लण्ड ॥३७९॥ ; रूपेण प्रादुर्भवन्ति नान्यथा । तथाहि यद्यदा यतो भवति तत्तदा तत एव नियतेनैव रूपेण भवदुपलभ्यते । अन्यथा कार्य-कारणभावव्यवस्था प्रतिनियतरूपव्यवस्था च न भवेत् नियामकाभावात् । तत एवं कार्य यत्यतः प्रतीयमानामेनां नियति को नाम निराकतु मलम् १, तथा चोक्तम् , "नियतेनैव रूपेण, सर्वे भावा भवन्ति यत् । ततो नियतिजा हा ते, 'तत्स्वरूपानुभेदतः ॥ १ ॥ यद्यदैव यतो यावत् तत्तदैव ततस्तथा । नियतं जायते न्यायात् क एनां वाधितु ं क्षमः १ ॥२॥ " [शास्त्रवार्ता समु. का. १७३-४ ] तथा अस्ति जीवः स्वतो नित्य ईश्वरतः । १ । अस्ति जीवः स्वतोऽनित्य ईश्वरतः २ । अस्ति जीवः परतो नित्य ईश्वरतः ३ । अस्ति जीवः परतोऽनित्य ईश्वरतः ४ । ईश्वरवादिनो हि सर्व जगदीश्वरकृतं मन्यन्ते । ईश्वरं च सहज सिद्धज्ञानवैराग्यधर्मैश्वर्यरूपचतुष्टयं प्राणिनां च स्वर्गापवर्गयोः प्रेरकमिति । तदुक्तम्--- ★ "ज्ञानमप्रतिघं यस्य, वैराग्यं च जगत्पतेः । ऐश्वर्यं चैव धर्मश्थ, सहसिद्धं चतुष्टयम् ॥१॥ तुरोऽयमात्मनः सुखदुःखयोः । ईश्वरप्रेरितो गच्छेत्, स्वर्ग वा श्वभ्रमेव वा ॥२॥ " [महाभारत] वनपर्व ३०।२१] इत्यादि । १ तत्स्त्ररूपानुवेधतः इति षड्दर्शन वृत्ति-नन्दी सूत्रमय वृस्यो । ★ उद्धृतोऽयं श्लोकः शात्रवार्तासमुचये (गा. १९५), सूत्रकृताङ्गवृत्ती ( प. २५६), सम्मतिवृत्तौ प. ६६ प्रमाणमीमांसा (प. १२), नन्दीसूत्रमक्षयवृत्ती (प. २१४) च ॥ २ तुला- नन्दीसूत्रमय वृत्तिः ५.२१४ ॥ २०६ द्वारे ३६३ पाखण्डिन गाथा ११८८ १२०६ प्र. आ. ३४६ ॥३७९॥
SR No.090383
Book TitlePravachansaroddhar Part 2
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherZZZ Unknown
Publication Year
Total Pages740
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy