________________
गरोद्धारे टीके
तीयः
१३७७॥
. कालवाधिनश्च ते मन्तव्या ये कालकृतमेव सर्व जगन्मन्यन्ते । तथा च ते एवमाहुः-न कालमन्तरेण सहकार-चम्पका-शोकादिकुसुमोद्गमफलानुबन्धादयो हिमकणानुपक्तशीतप्रपात-नक्षत्रगर्भाधान- २०६द्वारे वर्षादयो वा ऋतुविभागसम्पादिता बाल-कुमार-यौवन-चलिपलितागमादयो वा अवस्थाविशेषा घटन्ते । प्रतिनियतकालविभाग एव तेषामुपलभ्यमानत्वात् । अन्यथा सर्वमव्यवस्थया भवेत् । न चैतद् दृष्टमिष्टं पाखण्डिन: वा । अपिच' -मुद्दादिपक्तिरपि न कालमन्तरेण लोके भवन्ती दृश्यते । किन्तु कालक्रमेण । अन्यथा गाथा स्थालीन्धनादिसामग्रीसम्पर्कसम्भवे प्रथममम येऽपि मुद्गादिपक्तेर्भावप्रसङ्गः । न च भवति । तस्माद्यत्कृतकं |११८८. तत्सर्व कालकृतमिति । यदाहु:
१२०६ "न कालव्यतिरकेण, 'गर्भबालशुभादिकम् । यत्किचिजायते लोके, सदसौ कारणं किल ॥१॥ किंच कालाहते नेव, मुद्गपक्तिरपीक्ष्यते । स्थास्यादिनिधानेऽपि, ततः कालादसों मता ॥२॥
प्र.आ.
[शास्त्रवार्तासमु. का. १६५-६]|३४६ द्वितीयश्च भङ्गोऽयं-अस्ति जीवः स्वतोऽनित्यः कालतः। एवमुक्तप्रकारेण परतोऽपि द्वौ भङ्गो कर्तव्यो । यथा-अस्ति जीवः परतो नित्यः कालतः । अस्ति जीवः परतोऽनित्यः कालतः।
सर्वेषामपि हि पदार्थाना परपदार्थस्वरूपापेक्षया स्वस्वरूपपरिच्छेदः । यथा दीर्घत्वापेक्षया इस्वत्वस्य, हस्त्रत्वापेक्षया च दीर्घत्वस्य । इत्येवमेवात्मनः स्तम्भ-कुम्भादीन समीक्ष्य तद्वयतिरिक्ते वस्तुन्यात्मबुद्धिः प्रवर्तत इति । अतो यदात्मनः स्वरूपं तत्परत एवावधार्यते न स्वतः । पूर्वेण च स्वत एव इति पद- १०च-सि.पि. नास्ति ।। २ भवन्तीति-जे. ॥१नद्भवति--मु.॥ ४ गर्भयालयुवादिकम्-इति षड्दर्शनवृत्तौ प.१६ ।।
॥३७७॥