________________
प्रवचनसारोद्धारे सटीके
द्वितीयः
पाखण्डिन गाथा ११८८१२०६
तेषामज्ञानिकानां 'सप्तपष्टिः ।
तथा विनयेन चरन्तीति वैनयिकाः, एते चानवधृतलिङ्गाचारशास्त्राः, केवलं विनयप्रतिपत्तिप्रधानाः । एषां च द्वात्रिंशद्भेदा इति ॥८८॥ ___अथ 'यथोद्देशं निर्देश' इति न्यायात् क्रियावादिनामशीत्युत्तरशतसङ्ख्याभङ्गानयनोपायमाह-'जीवे' त्यादिगाथाद्वयम् , जीवादीनि नव पदानि- जीव-अजीव-आश्रव-बन्ध संवर-निर्जरा-पुण्य-पाप मोक्षलक्षणानव पदार्थान परिपाट्या पट्टिकादौ विरचय्य तेषामधः प्रत्येकं स्वतः परत इति शब्दी स्थाप्यते । तयोरपि-स्वतः परत इति शब्दयोग्धः प्रत्येकं नित्या-ऽनित्यशब्दौ स्थाप्येते । ततोऽपि-नित्या-ऽनित्यशब्दयोरधस्तादनुक्रमेण-परिपाट्या काल-स्वभाव-नियतीश्वरा-ऽऽत्मस्वरूपाणि पश्च पदानि स्थाप्यन्ते ॥८॥१०॥
अर्थतेषामेव भेदानामभिलापमाह-'जीवो' इत्यादिगाथात्रयम् , इह अस्ति जीवः स्वतो नित्यः कालतः प्रथमो मङ्गो-विकल्पः । अस्य च विकल्पस्यायमर्थ:-इह-अस्मिन् जगति अस्ति-विद्यते खल्वयं जीवः-आत्मा स्वतः-स्वेन रूपेणः, न तु परोपाध्यपेक्षया, हस्वत्वदीर्घत्वे इव, नित्यः-शाश्वतः, न क्षणिका, पूर्वोत्तरकालयोरवस्थितत्वात् , विद्यते खलु अय जीवः आत्मा स्वतः स्वेन रूपेण 'कालवादिनो मतेन ।
॥३७६॥
प्र.आ.
-AGRY
-MSup
१सप्तपष्टिभेदाः-मु.॥२ तुला-नन्दीसूत्रमलय. वृत्तिः प. २१७ BI ३ तुला नन्दीसूत्रमलय. कृतिः प. २१३B तः ॥ ४ इयं प्रथमो-खं.॥.. चिह्नद्वयमध्यवर्तिपाठः मु. नास्ति । ५ काळवादिनो मतेन-जे. नास्ति । कालवादिनी ....कामकृतमेव-ख. नास्ति ।
॥३७६॥