SearchBrowseAboutContactDonate
Page Preview
Page 393
Loading...
Download File
Download File
Page Text
________________ प्रवचनसारोद्धारे सटीके जीवा माहा गाथा द्वितीयः खण्ड: ८७ ॥३६९॥ ऽनाभोगनिर्वतितः; आहारयामीति विशिष्टेच्छामन्तरेण निष्पाद्यते यः प्रावृट्काले प्रचुरतरमृत्राधभिव्यङ्ग्यशीतपुद्गलाद्याहारवत् सोऽनाभोगनिर्वर्तित इति भावः । 'तत्रापर्याप्तकानां सुराणामोजआहारोऽ'नाभोगनिर्दतितः अनाभोगसम्पादितो भवति । मनःपर्याप्तेरभावात् आभोगासम्भवात् । पर्याप्तानां पुनर्यो मनोभक्षणेन-मनसा सश्चिन्त्य विशिष्टपुद्गलाभ्यवहरणेनाहारः स आभोगनिर्मितः आभोगसम्पादितो भवति ।।८४|| सम्प्रति सागरोपमसङ्घयया आहारोच्छ्वासयोः कालमानमाह--'जस्से' त्यादि, 'देवानां मध्ये यस्य देवस्य यानन्ति सागरोणागि टिनिस्तस्य तालद्धिः पक्षरुच्छ्वासः-शरीरान्तर्गतप्राणपवनोसर्पणं प्रवर्तते । तावद्भिश्च वर्षसहस्र राहारः-आहाराभिलाषः । यथा-यस्य देवस्यैकं सागरोपमं स्थितिस्तस्यैकस्मिन् पक्षेऽतिक्रान्ते उच्छ्चासः, एकस्मिन् वर्षसहस्र आहारः । यस्य द्वे सागरोपमे तस्य पक्षद्वये उच्छ्वासो वर्षसहस्रद्वये आहारः; यावत् त्रयस्त्रिंशत्सागरोपमाणि यस्य स्थितिस्तस्य त्रयस्त्रिंशत्पक्षातिक्रमे उच्छ्वासः, त्रयस्त्रिंशद्वर्पसहस्रातिक्रमे आहारः । देवेषु हि यो यथा महायुः स तथा सुखी । सुखितानां च यथोत्तरं महानुच्छ्वासनिःश्वासकियाविरहकालः । दुःखरूपत्वादुच्छ्वासनिःश्वासक्रियायाः । ततो यथा यथाऽऽयुषः सागरोपमवृद्धिस्तथा तथोच्छ्वामक्रियाविरहप्रमाणस्यापि पक्षवृद्धिः । आहारक्रियायास्तु ततोऽप्यतिदुःखरूपत्वाद्वर्षसहस्रवृद्धिः ॥ ८५ ॥ प्र. आ | ३४३ १ मत्रा० मु.॥२०ऽनामोगनिवर्तितः-सि.बि. नास्ति ॥ ३ तुला बहत्समहणीदेवमद्रीया वृत्तिः प.८४ ।। ४ प्रयस्त्रिंशलक्षान्ते-ख, ॥ ५ यथा-सि.बि. नास्ति ।। sar
SR No.090383
Book TitlePravachansaroddhar Part 2
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherZZZ Unknown
Publication Year
Total Pages740
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy